________________
प्रश्नव्याक र० श्रीअभयदेव० वृत्तिः
॥ ८८ ॥
लेखो दत्तः, ततश्च रामकेशवौ तां नगरीमागतौ, रुक्मिणी च पितृष्वस्रा सह चेटिकापरिवृता देवतार्चनव्याजेनोद्यानमागता, कृष्णेन रथमारोपिता, ततस्तौ द्वारिकाभिमुखौ तां गृहीत्वा प्रचलितौ, पूत्कृतं च चेटिकाभिः निर्गतौ सदप चतुरङ्गसैन्यसमग्रौ रुक्मिणीव्यावर्त्तनार्थ रुक्मिशिशुपाल महाराजौ, ततो विनिवृत्त्य हलिना हलमुशलाभ्यां दिव्यास्त्राभ्यां चूर्णितं तद्वलं विमुक्तौ कृच्छ्रजीवितौ शिशुपाल रुक्मिणाविति । तथा पद्मावतीकृते सङ्ग्रामोऽभूत्, तत्र अरिष्टनगरे राममातुलस्य हिरण्यनाभाभिधाननराधिपस्य दुहिता पद्मावती बभूव, तस्याश्च स्वयंवरमुपश्रुत्य रामकेशवावन्ये च राजकुमारास्तत्राजग्मुः, ततश्च 'पूएइ भाइणिजे विहीऍ सो तत्थ रामगोविंदे । रेवगनामो जेट्ठो भाया य हिरण्णनाभस्स ॥ १ ॥ पिउणा सह पव्वइओ सो तत्थ नमिजिणस्स गयमोहो । तस्स य रेवयनामा रामा सीमा य बंधुमई ॥ २ ॥ दुहियाओ पढमं चिय दिनाओ आसि तेण रामस्स । तत्थ य सयंवरंमी सव्वेसिं नरवरिंदाणं ॥ ३ ॥ पुरओच्चिय तं गेण्हइ आहव| कुसलाण कन्नगं कण्हो । जायं च पत्थिवेहिं जुज्झं सह जायवाणऽउलं ॥ ४॥ सव्वत्तो विद्दविओ मुहतमित्तेण सव्वनरनाहो । रामो कन्नचउक्कं हरीवि पउमावईकन्नं ॥ ५ ॥ गहिउं ताहिं समेया समागया नियपुरवरे सव्वे'ति । [पूजयति भागिनेयौ विधिना स तत्र रामगोविन्दौ । रैवतनामा ज्येष्ठो भ्राता च हिरण्यनाभस्य ॥ १ ॥ पित्रा सह प्रव्रजितः स तत्र नमिजिनस्य (तीर्थे ) गतमोहः । तस्य च रैवतनाम्नी रामा सीमा च बन्धुमती ॥ २ ॥ दुहितरः प्रथममेव दत्ता आसन् रामाय । तत्र च स्वयंवरे सर्वेषां नरवरेन्द्राणाम् ॥ ३ ॥ पुरत एव
Jain Education International
For Personal & Private Use Only
४ अधर्म
द्वारे
रुक्मिणीपद्मावती
दृष्टान्तौ
सू० १६
॥ ८८ ॥
www.jainelibrary.org