SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना सूत्रवृत्तिः १०स्थाना. | उद्देश:३ | आश्चर्य ॥५२४॥ दशकं सू०७७७ व्यन्तरसुरेण मिथुनकमेकं भरतक्षेत्रे क्षिप्तं, तच्च पुण्यानुभावाद्राज्यं प्राप्तं, ततो हरिवर्षजातहरिनाम्नो पुरुषाद्यो वंशः स| तथेति ७, तथा चमरस्य-असुरकुमारराजस्योत्पतनं-ऊर्ध्वगमनं चमरोसातः, सोऽप्याकस्मिकत्वादाश्चर्यमिति, श्रूयते हि | चमरचञ्चाराजधानीनिवासी चमरेन्द्रोऽभिनवोत्पन्नः सन्नूर्ध्वमवधिनाऽऽलोकयामास, ततः स्वशीर्षोपरि सौधर्मव्यवस्थितं शक्रं ददर्श, ततो मत्सराध्मातः शक्रतिरस्काराहितमतिरिहागत्य भगवन्तं महावीरं छद्मस्थावस्थमेकरात्रिकी प्रतिमा प्रतिपन्नं सुंसुमारनगरोद्यानवतिनं सबहुमानं प्रणम्य भगवंस्त्वत्सादपङ्कजवनं मे शरणमरिपराजितस्येति विकल्प्य | विरचितघोररूपो लक्षयोजनमानशरीरः परिघरत्नं प्रहरणं परितो भ्रमयन् गर्जनास्फोटयन् देवांस्त्रासयन्नुत्पपात, सौध-I मावतंसकविमानवेदिकायां पादन्यासं कृत्वा शक्रमाक्रोशयामास, शक्रोऽपि कोपाजाज्वल्यमानस्फारस्फुरत्स्फुलिङ्गश-| तसमाकुलं कुलिशं तं प्रति मुमोच, स च भयात् प्रतिनिवृत्त्य भगवत्पादौ शरणं प्रपेदे, शक्रोऽप्यवधिज्ञानावगततद्व्यतिकरस्तीर्थकराशातनाभयात् शीघ्रमागत्य वज्रमुपसंजहार, बभाण च मुक्तोऽस्यहो भगवतः प्रसादात् नास्ति मत्तस्ते भयमिति ८, तथाऽष्टाभिरधिकं शतमष्टशतं अष्टशतं च ते सिद्धाश्च-निवृताः अष्टशतसिद्धाः, इदमप्यनन्तकालजातमित्याश्चर्यमिति ९, तथा असंयता:-असंयमवन्त आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणः तेषु पूजा-सत्कारः, सर्वदा हि किल संयता एव पूजार्हाः, अस्यां त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्य, अत एवाह-दशाप्येतानि अनन्तेन कालेन-अनन्तकालात् संवृत्तानि अस्यामवसर्पिण्यामिति । अनन्तरसूत्रे चमरोत्पात उक्तः स च रत्नप्रभायाः सञ्जात इति रत्नप्रभावक्तव्यतामाह H ॥५२४॥ Jain Education witerasonal For Personal & Private Use Only MAnjainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy