SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ धं वेणं पचणुभवमाणा विहरंति, तं० सीतं १ उसिणं २ खुधं ३ पिवासं ४ कंडुं ५ परज्झं ६ भयं ७ सोगं ८ जरं ९ वाहिं १० ( सू० ७५३ ) 'दसे' त्यादि, संज्ञानं संज्ञा आभोग इत्यर्थः, मनोविज्ञानमित्यन्ये, संज्ञायते वा आहाराद्यर्थी जीवोऽनयेति संज्ञा-वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्रा आहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवतीति, तत्र क्षुद्वेदनीयोदयात् कवलाद्याहारार्थं पुनलोपादानक्रियैव संज्ञायते ऽनयेत्याहार संज्ञा, तथा भयवेदनीयोदयाद्भयान्तस्य दृष्टिवदनविकाररोमाञ्चद्भेदादिक्रियैव संज्ञायतेऽनयेति भयसंज्ञा, तथा पुंवेदोदयान्मैथुनाय ख्यङ्गालोकनप्रसन्नवदन संस्तम्भितोरुवेपथुप्रभृतिलक्षणा च क्रियैव संज्ञायतेऽनयेति मैथुनसंज्ञा, तथा लोभोदयात् प्रधानभवकारणाभिष्वङ्गपूर्विका सच्चित्तेतरद्रव्योपादानक्रिया च संज्ञायतेऽनयेति परिग्रहसंज्ञा, तथा क्रोधोदयातदावेशगर्भा प्ररुक्षमुखनयनदन्तच्छदचेष्टैव संज्ञायतेऽनयेति क्रोधसंज्ञा, तथा मानोदयादहङ्कारात्मिकोत्सेकादिपरि णतिरेव संज्ञायतेऽनयेति मानसंज्ञा, तथा मायोदयेनाशुभसंक्लेशादनृतसम्भाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, तथा लोभोदयालालसत्वान्वितात्सचित्तेतरद्रव्यप्रार्थनैव संज्ञायतेऽनयेति लोभसंज्ञा, तथा मतिज्ञानाद्यावरणक्षयोपशमाच्छन्दाद्यर्थगोचरा सामान्यावबोधक्रियैव संज्ञायतेऽनयेत्योघसंज्ञा, तथा तद्विशेषावबोधक्रियैव संज्ञायतेऽनयेति लोकसंज्ञा १०, ततश्चौघसंज्ञा दर्शनोपयोगः लोकसंज्ञा ज्ञानोपयोग इति, व्यत्ययमन्ये, अन्ये पुनरित्थमभिदधति - सामान्यप्रवृत्तिरोघसंज्ञा लोकदृष्टिर्लोकसंज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योक्ताः, एकेन्द्रियादीनां तु Jain Educationonal For Personal & Private Use Only jalnelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy