SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ थाक्षरार्थो वक्तव्यः, सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साक्षाद्दर्शित एव, इतरेषां त्वेवं-'सीयले णं अरहा पंचपुवासा होत्था, तंजहा-पुवासाढाहिं चुए चइत्ता गभं वकते, पुव्वासाढाहिं जाए' इत्यादि, एवं सर्वाण्यपि इति, व्याख्या त्वेवं |-पुष्पदन्तो-नवमतीर्थकरः आनतकल्पादेकोनविंशतिसागरोपमस्थितिकात् फाल्गुनबहुलनवम्यां मूलनक्षत्रे च्युत-5 श्युत्वा काकन्दीनगर्या सुग्रीवराजभार्यायाः रामाभिधानाया गर्भत्वेन व्युत्क्रान्तः?, मूलनक्षत्रे मार्गशीर्षबहुलपञ्चम्यांत जातः, तथा मूल एव ज्येष्ठशुद्धप्रतिपदि मतान्तरेण मार्गशीर्षबहुलषष्ठयां निष्क्रान्तः, तथा मूल एव कार्तिकशुद्धतृतीयायां केवलज्ञानमुत्खन्नं, तथा अश्वयुजः शुद्धनवम्यामादेशान्तरेण वैशाखबहुलषष्ठयां निर्वृत इति २, तथा शीतलोदशमजिनः प्राणतकल्पाविंशतिसागरोपमस्थितिकाद्वैशाखबहुलपष्ठयां पूर्वाषाढानक्षत्रे च्युतः च्युत्वा च भद्दिलपुरे दृढरथनृपतिभाया नन्दाया गर्भतया व्युत्कान्तः, तथा पूर्वाषाढास्वेव माघबहुलद्वादश्यां जातः, तथा पूर्वाषाढास्वेव माघबहुलद्वादश्यां निष्क्रान्तः, तथा पूर्वाषाढास्वेव पौषस्य शुद्ध मतान्तरेण बहुले पक्षे चतुर्दश्यां ज्ञानमुत्पन्नं, तथा तत्रैव नक्षत्रे श्रावणशुद्धपञ्चम्यां मतान्तरेण श्रावणबहुलद्वितीयायां निवृत इति, एवं गाथात्रयोक्तानां शेषाणामपि सूत्राणां प्रथमानुयोगपदानुसारेणोपयुज्य व्याख्या कार्या, नवरं चतुर्दशसूत्रे अभिलापविशेषोऽस्तीति तद्दर्शनार्थमाह|'समत्यादि, हस्तोपलक्षिता उत्तरा हस्तो वोत्तरो यासां ता हस्तोत्तराः-उत्तराः फाल्गुन्यः, पञ्चसु च्यवनगर्भहरणादिषु हस्तोत्तरा यस्य स तथा 'गर्भात्' गर्भस्थानात् 'गर्भ'न्ति गर्भे गर्भस्थानान्तरे संहतो-नीतः, निवृतस्तु स्वातिनक्षत्रे कार्तिकामांबास्यायामिति ॥ इति पञ्चमस्थानकस्य प्रथमोद्देशको विवरणतः समाप्तः॥ स्था०५२ dain Education Intel For Personal & Private Use Only JAIMinelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy