SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 55544%% * स्थितं प्रज्ञप्तमिति, तन तलानि-मध्यखण्डानि अश्रयः-कोव्यः कर्णिका:-कोणविभागाः अधिकरणिक-सुवर्णकारोपकरणं । प्रतीतमेवेति, इदश्च चतुरङ्गलप्रमाणं 'चउरंगुलप्पमाणा सुक्नवरकागणी नेय'त्ति वचनादिति । अङ्गलप्रमाणनिष्पन्नं योज नमानमाह-मागहें'त्यादि, मगधेषु भवं मागधं-मगधदेशव्यवहृत्तं तस्य योजनस्य-अध्वमानविशेषस्याष्ट धनुःसह-18 *म्राणि निहारो निर्गमः प्रमाणमितियावत् 'निहत्ते'त्ति क्वचिसाठः तत्र निधत्तं-निकाचितं निश्चितं प्रमाणमिति ग-1 म्यते, इदं च प्रमाणं परमाण्वादिना क्रमेणावसेयं, तथाहि-“परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा ज़्या Mय जवो अडगुणविवद्धिया कमसो ॥१॥"[परमाणुस्त्रसरेणू रथरेणुर्वालस्यानं च लिक्षा यूका च यवोऽष्टगुणविव-18 |र्द्धिताः क्रमशः॥१॥] तत्र परमाणुरनन्तानां निश्चयपरमाणूनां समुदयरूपः, ऊर्ध्वरेण्वादि(उत्श्लक्ष्णश्लक्ष्णिका)भेदा अनुयोगद्वाराभिहिता अनेनैव सङ्गहीता दृश्याः, तथा पौरस्त्यादिवायुप्रेरितस्त्रस्यति-गच्छतीति त्रसरेणुः, रथगमनोत्खातो रथरेणुरिति, एवं चाष्टौ यवमध्यान्यंगुलं, चतुर्विंशतिरंगुलानि हस्तः, चत्वारो हस्ता धनुः, द्वे सहस्र धनुषां गव्यूतं, चत्वारि गव्यूतानि योजनमिति, मागधग्रहणात् क्वचिदन्यदपि योजनं स्यादिति प्रतिपादितं, तत्र यस्मिन् देशे षोडशभिर्धनुःशतैर्गव्यूतं स्यात्तत्र पद्भिः सहस्रैश्चतुर्भिः शतैर्धनुषां योजनं भवतीति ॥ योजनप्रमाणमभिधायाष्टयोजनतो जम्ब्वादीनां प्रमाणप्रतिपादनाय सूत्रचतुष्टयमाह जंबू णं सुदंसणा अट्ट जोयणाई उद्धं उच्चत्तेणं बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं सातिरेगाइं अट्ठ जोयणाई सव्वग्गेणं पं०१,कूडसामली णं अट्ठ जोयणाई एवं चेव २ (सू०६३५) तिमिसगुहा णमट्ठ जोयणाई उद्धं उच्चत्तेणं ३ खंडप्पवा Jain Educetics For Personal & Private Use Only ljanelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy