SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ प विनिर्गतम् । ताजगन्मातरः सृष्टाः सरीसृपाणां तत्त्वनिषेधनादेवेति ३, तथा निम्मितं-ईश्वरब्रह्मपुरुषादिना कृतं लोकं वदतीति निम्मितवादी, तथा चाहुः-"आसीदिदं | तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रणष्टोरगराक्षसे ॥२॥ केवलं गहरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तव, शयानस्तप्यते तपः ॥३॥ तत्र तस्य शयानस्य, नाभेः पद्म विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥ ४ ॥ तस्मिन् पझे तु भगवान् दण्डीयज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः॥५॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुमनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ ६॥ कदुः सरीसृपाणां सुलमा माता तु नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् ॥ ७॥” इति, प्रमाणयति चासौ-बुद्धिमत्कारणकृतं भुवनं संस्थानवत्त्वात् घटवदित्यादि, अक्रियावादिता चास्य 'न कदाचिदनीदृशं जगदिति वचनादकृत्रिमभुवनस्याकृत्रिमतानिषेधात्, न चेश्वरादिकर्तृकत्वं जगतोऽस्ति, कुलालादिकारकवैयर्थ्यप्रसङ्गात् कुलालादिवच्चेश्वरादेर्बुद्धिमत्कारणस्यानीश्वरताप्रसङ्गात्, किञ्च-ईश्वरस्वाशरीरतया कारणाभावात् क्रियास्वप्रवृत्तिः स्यात् , सशरीरत्वे च तत्शरीरस्यापि कर्जन्तरेण भाव्यं, एवं चाचवस्थाप्रसङ्ग इति ४, तथा सात-सुखमभ्यसनीयमिति वदतीति सातवादी, तथाहि-भवत्वेवादी कश्चित्-सुखमेवानुशीलनीयं सुखार्थिना, न त्वसातरूपं तपोनियमब्रह्मचर्यादि, कारणानुरूपत्वात् कार्यस्य, नहि शुक्कैस्तन्तुभिरारब्धः पटो रक्को भवति अपि तु शुक्ल एव, एवं सुखासेवनात् सुखमेवेति, उक्तं च-"मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराहे। द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥" अ *AISAIANASHIRIATRICA Jain Education For Personal & Private Use Only nelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy