________________
त्यावर्त्तान् दृष्टान्तान् कषायांश्च तद्दान्तिकानभिधित्सुः सूत्रद्वयमाह-सुगमं चैतत् , नवरं खरो-निष्ठुरोऽतिवेगितया पातकश्छेदको वा आवर्तनमावर्त्तः स च समुद्रादेश्चऋविशेषाणां वेति खरावर्त्तः, उन्नतः-उच्छ्रितः स चासावावर्त्तश्चेति उन्नतावतः, स च पर्वतशिखरारोहणमार्गस्य वातोत्कलिकाया वा, गूढश्चासावावर्त्तश्चेति गूढावतः स च गेन्दुकदवर
कस्य दारुग्रन्थ्यादेर्वा आमिषं-मांसादि तदर्थमावतः शकुनिकादीनामामिषावर्त्त इति, एतत्समानता च क्रोधादीनां दक्रमेण परापकारकरणदारुणत्वात् पत्रतृणादिवस्तुन इव मनस उन्नतत्वारोपणात् अत्यन्तदुर्लक्ष्यस्वरूपत्वात् अनर्थ
शतसम्पातसङ्कुलेऽप्यवपतनकारणत्वाच्चेति, इयञ्चोपमा प्रकर्षवता कोपादीनामिति तत्फलमाह-'खरावत्तेत्यादि, अशुभपरिणामस्याशुभकर्मबन्धनिमित्ततया दुर्गतिनिमित्तत्वादुच्यते 'णेरइएसु उववजह'त्ति ॥
अणुराहानक्खत्ते चउत्तारे पं० पुव्वासाढे एवं चेव उत्तरासाढे एवं चेव (सू० ३८६) जीवाणं चउठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, नेरतियनिव्वत्तिते तिरिक्खजोणितनिवत्तिते मणुस्स० देवनिव्वत्तिते, एवं उवचिणिंसु वा उवचिणति वा उवचिणिस्संति वा, एवं चिय उवचिय बंध उदीर वेत तह निजरे चेव । (सू० ३८७ ) चउपदेसिया खंधा अर्णता पन्नत्ता चउपदेसोगाढा पोग्गला अणंता चउसमयद्वितीया पोग्गला अणंता चउगुणकालगा पोग्गला अणंता जाव चउगुणलुक्खा पोग्गला अणंता पण्णत्ता (सू० ३८८)॥ चडत्थो उद्देसो
समत्तो चउठाणं चउत्थमज्झयणं समत्तं ॥ नारका अनन्तरमुक्तास्तैश्च वैक्रियादिना समानधर्माणो देवा इति तद्विशेषभूतनक्षत्रदेवानां चतुःस्थानकं विवक्षुः
SERIES
Jain Education International
For Personal & Private Use Only
ww.jainelibrary.org