________________
लोहिता हालिदा सुकिला, महासुकसहस्सारेसु णं कप्पेसु देवाणं भवधारणिजा सरीरंगा उक्कोसेणं चत्तारि रयणीओ उडूं उच्चत्तेणं पन्नत्ता (सू० ३७५ )
'चत्तारि धम्मे'त्यादि, धर्म्मस्य चारित्रलक्षणस्य द्वाराणीव द्वाराणि - उपायाः । क्षान्त्यादीनि धर्मद्वाराणीत्युक्तं, अथारम्भादीनि नारकत्वादिसाधनकर्म्मणो द्वाराणीति विभागतः 'चउहिं ठाणेहिं' इत्यादिना सूत्र चतुष्टयेनाह - कण्ठ्यञ्चैतत् नवरं 'नेरइयत्ताए 'त्ति नैरयिकत्वाय नैरयिकतायै नैरयिकतया वा कर्म्म-आयुष्कादि, नेरइयाउयत्ताएत्ति पाठान्तरे नैरयिकायुष्कतया नैरयिकायुष्करूपं कर्म्मदलिकमिति, महान् - इच्छापरिमाणेनाकृतमर्यादतया बृहन् आरम्भः - पृथिव्याद्युपमर्द्दलक्षणो यस्य स महारम्भः - चक्रवर्त्त्यादिस्तद्भावस्तत्ता तया महारम्भतया एवं महापरिग्रहतयाऽपि, नवरं परिगृह्यत इति परिग्रहो - हिरण्य सुवर्णद्विपदचतुष्पदादिरिति, 'कुणिम' मिति मांसं तदेवाहारो-भोजनं तेन, 'माइल्लयाए 'ति मायितया माया च मनःकुटिलता, 'नियडिल्लयाए'त्ति निकृतिमत्तया निकृतिश्च वञ्चनार्थं कायचेष्टाद्यन्यथाकरणलक्षणा अभ्युपचारलक्षणा वा तद्वत्तया, कूटतुलाकूटमानेन यो व्यवहारः स कूटतुलाकूटमान एवोच्यते अतस्तेनेति, प्रकृत्या - स्वभावेन भद्रकता - परानुपतापिता या सा प्रकृतिभद्रकता तथा सानुक्रोशतया - सदयतया मत्सरिकता - परगुणासहिष्णुता तत्प्रतिषेधोऽमत्सरिकता तयेति, सरागसंयमेन - सकपाय चारित्रेण वीतरागसंयमिनामायुषो बन्धाभावात् संयमासंयमो - द्विस्वभावत्वादेशसंयमः बाला इव बाला - मिथ्यादृशस्तेषां तपःकर्म्म- तपःक्रिया बालतपःकर्म्म तेन अकामेन-निर्जरां प्रत्यनभिलाषेण निर्जरा-कर्मनिर्जरणहेतुर्बुभुक्षा दिसहनं यत् सा अकामनिर्जरा तथा । अनन्तरं देवोत्पत्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org