________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ २७५ ॥
ऋद्धिरससातागौरवित आभियोग्यां भावनां करोति ॥ १ ॥ ] तथा सम्मुह्यतीति सम्मोह :- मूढात्मा देवविशेष एव तद्भाविस्तत्ता तस्यै सम्मोहतायै सम्मोहत्वाय सम्मोहतया वेति, उन्मार्गदेशनया - सम्यग्दर्शनादिरूपभावमार्गातिक्रान्तधर्म्म| प्रथनेन [ प्रकटनेन-प्रकथनेन > मार्गान्तरायेण - मोक्षाध्यप्रवृत्ततद्विघ्नकरणेन, कामाशंसाप्रयोगेण - शब्दादावभिलापकरणेन, 'भिज्ज'त्ति लोभो गृद्धिस्तेन निदानकरणं एतस्मात्तपः प्रभृतेश्चक्रवत्र्यादित्वं मे भूयादिति निकाचनाकरणं तेनेति, | इयमप्येवमन्यत्र - "उम्मग्गदेसओ मग्गनासओ मग्गविप्पडीवत्ती । मोहेण य मोहेत्ता संमोहं भावणं कुणइ ॥ १ ॥” इति, [उन्मार्गदेशको मार्गनाशको मार्गविप्रतिपत्तिकः मोहेन च मोहयित्वा संमोहीं भावनां करोति ॥ १ ॥ देवानां मध्ये किल्बिषः - पापोडत एवास्पृश्यादिधर्म्मको देवश्चासौ किल्विषश्चेति वा देवकिल्बिषः शेषं तथैव, अवर्णः - अश्लाघा असदोषोद्घट्टनमित्यर्थः, अयमर्थोऽन्यत्रैवमुच्यते - " नाणस्स केवलीणं धम्मायरिआण सव्वसाहूणं । भासं अवन्नमाई कि |ब्बिसियं भावणं कुणइ ॥ १ ॥” इति, [ज्ञानस्य केवलिनां धर्माचार्याणां सर्वसाधूनाम् । भाषमाणोऽवर्णादि किल्बिपिक भावनां करोति ॥ १ ॥ ] इह कन्दर्पभावना नोक्ता चतुःस्थानकत्वादिति, अवसरश्चायमस्या इति सा प्रदर्श्यते - " कंदप्पे | कुक्कुइए दवसीले यावि हासणकरे य। विम्हाविंतो य परं कंदष्पं भावणं कुणइ ॥ १ ॥” इति [कन्दर्पः कन्दर्पकथावान्, कुक्रुचितो भाण्डचेष्टः, द्रवशीलो दर्पात् द्रुतगमनभाषणादि, हासनकरो वेषवचनादिना स्वपरहासोत्पादकः विस्मापकःइन्द्रजाली > [कंदप कुक्रुचितः द्रुतगामी चापि हासनकरः परं विस्मापयन् ( विस्मापक इन्द्रजाली ) कंदप भावनां करोति ॥ १ ॥ ] अयञ्चापध्वंसः प्रव्रज्यान्वितस्येति प्रव्रज्यानिरूपणाय 'चउच्चिहा पव्वजे' त्यादि सूत्राष्टकं -
Jain Education International
For Personal & Private Use Only
४ स्थाना०
उद्देशः ४ संवासः
आसुरा
भियोग्या
द्याः
सू० ३५३३५४
॥ २७५ ॥
www.jainelibrary.org