________________
यानि अस्यादीनि तानि पत्राणीति, असि: खङ्गः स एव पत्रमसिपत्रं करपत्रं - क्रकचं येन दारु छिद्यते क्षुरः-छुरः स एव पत्रं क्षुरपत्रं, कदम्बचीरिकेति शस्त्रविशेष इति २९, तत्र द्राक् छेदकत्वादसेर्यः पुरुषो द्रागेव स्नेहपाशं छिनत्ति सोऽसि - पत्रसमानः, अवधारितदेववचनसनत्कुमारचक्रवर्त्तिवत्, यस्तु पुनः पुनरुच्यमानो भावनाभ्यासात् स्नेहतरं छिनति स करपत्रसमानः, तथाविधश्श्रावकवत्, करपत्रस्य हि गमनागमनाभ्यां कालक्षेपेण छेदकत्वादिति, यस्तु श्रुतधमार्गोऽपि सर्वथा स्नेहच्छेदासमर्थो देशविरतिमात्रमेव प्रतिपद्यते स क्षुरपत्रसमानः, क्षुरो हि केशादिकमल्पमेव छिन - त्तीति, यस्तु स्नेहच्छेदं मनोरथमात्रेणैव करोति स चतुर्थः अविरतसम्यग्दृष्टिरिति अथवा यो गुर्वादिषु शीघ्रमन्दमन्दतरमन्दतमतया स्नेहं छिनत्ति स एवमपदिश्यते ३१, कम्बादिभिरातानवितानभावेन निष्पाद्यते यः स कटः कट इव कट इत्युपचारात् तन्त्वादिमयोऽपि कट एवेति, तत्र 'सुंबकडे'त्ति तृणविशेषनिष्पन्नः 'विदलकडे 'त्ति वंशशकलकृतः 'चम्मकडे 'ति वर्द्धव्यूतमञ्चकादिः 'कंबलकडे 'त्ति कम्बलमेवेति ३२, एतेषु चाल्पबहुबहुतर बहुतमावयवप्रतिबन्धेषु पुरुषा योजनीयाः, तथाहि -यस्य गुर्वादिष्वल्पः प्रतिबन्धः स्वल्पव्यलीकादिनापि विगमात् स सुम्बकटसमान इत्येवं सर्वत्र भावनीयमिति ३३, चतुष्पदाः स्थलचरपञ्चेन्द्रियतिर्यञ्चः एकः खुरः पादे पादे येषां ते एकखुरा:- अश्वादयः, एवं द्वौ खुरौ येषां ते तथा ते च गवादयः, गण्डी- सुवर्णकारादीनामधिकरणी गण्डिका तद्वत्पदानि येषां ते तथा ते हस्त्यादयः, 'सणफय 'ति सनखपदाः नाखराः - सिंहादयः, इहोत्तरसूत्रद्वये च जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकारतेति ३४, चर्ममयपक्षाः पक्षिणश्चर्म्मपक्षिणो- वल्गुलीप्रभृतयः एवं लोमपक्षिणो-हंसादयः समुद्रकवत् पक्षौ येषां ते समु
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org