________________
श्रीस्थानागसूत्रवृत्तिः
स्थाना | उद्देशः४ | क्रियावा
द्याद्या सू० ३४५
॥२६८॥
COMMONSOORSAX
द्यथाभवने प्रयोजककत्रींति पञ्चमः स्वभाववादिनः, एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, तत्र परत इत्यस्यायमर्थः-इह सर्वपदार्थानां पररूपापेक्षः स्वरूपपरिच्छेदो यथा इस्वत्वाद्यपेक्षो दीर्घत्वादिपरि|च्छेदः, एवमेव चात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्व्यतिरिक्ते हि वस्तुन्यात्मबुद्धिः प्रवर्तत इत्यतो यदात्मनः स्वरूप तत्परत एवावधार्यते न स्वत इति, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिर्जीवपदार्थेन लब्धाः अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति, एते च विकल्पा एकैकशो न लभ्यन्ते शीलाङ्गवदिति । तथा अक्रियावादिनां तु चतुरशीतिर्द्रष्टव्या, एवञ्चेयंपुण्यापुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपररूपविकल्पद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदी न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, इयं चानभिसन्धिपूर्विकाऽर्थप्राप्तिरिति, पश्चाद्विकल्पाभिलापःनास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वे षडिकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पा इत्येकत्र द्वादश, एवमजीवादिष्वपि पसु प्रत्येक द्वादश विकल्पाः, एवञ्च द्वादश सप्तगुणाश्चतुरशीतिविकल्पाः नास्तिकानामिति । अज्ञानिकानां तु सप्तपष्टिर्भवति, इयं चामुनोपायेन द्रष्टव्या-तत्र जीवाजीवादीन् नव पदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोसत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्व १ मसत्त्वं २ सदसत्त्वं ३ अवाच्यत्वं ४ सदवाच्यत्वं ५ असदवाच्यत्वं ६ सदसदवाच्यत्व ७मिति, तत एते नव सप्तकाः त्रिषष्टिः, उत्सत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-सत्त्व १मसत्त्वं सदसत्त्व ३ मवाच्यत्वं ४ चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टि
॥२६८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org