________________
श्रीस्थानानसूत्रवृत्तिः
॥२६०॥
REASEARSASRAERS
|स्तुनः सदृशं वस्तूत्तरदानायोपनीयते स प्रतिनिभो यथा कोऽपि प्रतिजानीने यदुत-यो मामपूर्व श्रावयति तस्मै लक्षमूल्यमिदं कटोरकं ददामीति, स च श्रावितोऽपि तन्नापूर्वमिति प्रतिपद्यते, तत एकेन सिद्धपुत्रेणोक्तम्-"तुझ पिया
उद्देशः३ मज्झ पिउणो, धारेइ अणूणयं सयसहस्सं । जइ सुयपुव्वं दिजउ अह न सुयं खोरयं देहि ॥१॥” इति, प्रतिनिभता18 आहरणचास्य सर्वस्मिन्नप्युक्ते श्रुतपूर्वमेवेदं ममेत्येवमसत्यं वचो ब्रुवाणस्य परस्य निग्रहाय तव पिता मम पितुर्धारयति लक्षमि
भेदाः त्येवंविधस्य द्विपाशरज्जुकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति, अस्य चोपपत्तिमात्ररूपस्याप्यर्थज्ञापकतया ज्ञातत्व-12
सू०३३८ मुक्तमिति, अथवा यथारूढमेव ज्ञातमेषः, तथाहि अत्रायं प्रयोगः-नास्त्यश्रुतपूर्व किञ्चित् श्लोकादि ममेत्येवमभिमा-18| नधनं ब्रूमो वयम्-अस्ति तवाश्रुतपूर्व वचनं तव पिता मम पितु रयत्यनूनं शतसहस्रमिते यथेते। तथा 'हे'त्ति यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाऽभिधीयते स हेतुरािते, यथा केनापि कश्चित् पर्यनुयुक्तः-अहो किं यवाः क्री-12 | यन्ते त्वया?, स त्वाह-येन मुधैव न लभ्यन्ते इति, तथा कस्मात् ब्रह्मचर्यादिकष्टमनुष्ठीयते?, यस्मादकृततपसां नरकादौ गुरुतरा वेदना भवतीति, इदमपि उपपत्तिमात्रमेव ज्ञातत्वेनोक्तमर्थज्ञापकत्वादिति, अथवाऽयमपि यथारूढं ज्ञातमेव, तथाह्यस्यैवं प्रयोगः-कस्मात् त्वया प्रव्रज्या क्रियत इति पृष्टः सन् केनापि साधुराह-यतस्तां विना मोक्षो न भवति, एतत्समर्थनायैव साधुस्तमाह-भो यवग्राहिन्! किमिति त्वया यवाः क्रीयन्ते ?, स त्वाह-येन मुधा न लभ्यन्ते, साधो-४
॥२६०॥ श्चायमभिप्रायो यथा-मुधालाभाभावात् तान् क्रीणासि त्वमेवमहं तां विना तदभावात्तां करोमीति, इह च मुधा य
१ तव पिता मम पितुर्धारयत्यनूनं शतसहस्रं यदि श्रुतपूर्व ददातु अथ न श्रुतं क्षौरकं देहि ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org