________________
श्रीस्थानाझासूत्रवृत्तिः
॥२५॥
खलुकः पश्चादाकीर्णो गुणवानिति चतुर्थः पूर्व पश्चादपि खलुङ्क एवेति । आकीर्णो गुणवान् आकीर्णतया-गुणवत्तया विनयवेगादिभिरित्यर्थः, वहति-प्रवर्त्तते विहरतीति पाठान्तरं आकीर्णोऽन्य आरोहदोषेण खलुङ्कतया-गलितया वहति, अन्यस्तु खलुक्कः आरोहकगुणात् आकीर्णगुणतया वहति, चतुर्थः प्रतीतः, सूत्रद्वयेऽपि पुरुषा दार्टान्तिका योज्याः, सूत्रे तु क्वचिन्नोकाः, विचित्रत्वात् सूत्रगतेरिति, ५ जाति ४ कुल ३ बल २ रूप १ जयपदेषु दशभिर्दिकसंयोगैर्दशैव प्रकन्थकदृष्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येकं तान्येवानुसरन्ति सन्ति दश दान्तिकपुरुषसूत्राणि भवन्तीति, नवरं जयःपराभिभव इति, सिंहतया-ऊर्जवृत्त्या निष्क्रान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति, शृगालतया-दीन- वृत्त्येति । पूर्व पुरुषाणामश्वादिभिर्जात्यादिगुणेन समतोक्ताऽधुना अप्रतिष्ठानादीनां तामेव प्रमाणत आह
चजारि लोगे समा पं० सं०-अपइट्ठाणे नरए १ जंबुद्दीवे दीवे २ पालते जाणविमाणे ३ सम्बट्ठसिद्धे महाविमाणे ४, चत्तारि लोगे समा सपक्खि सपडिदिासं पं० २०-सीमंतए नरए समयक्खेत्ते उडुविमाणे ईसीपब्भारा पुढवी, (सू० ३२८) उद्दलोगे णं चत्तारि बिसरीरा पं० तं०-पुढविकाइया आउ० वणस्सइ० उराला तसा पाणा, अहो
लोगे णं चत्तारि बिसरीरा पं० त०–एवं चेव, एवं तिरियलोएवि ४ (सू० ३२९) 'चत्तारी'त्यादि सूत्रद्वयं प्रायो व्याख्यातार्थ तथाप्युच्यते, अप्रतिष्ठानो नरकावासः सप्तम्यां नरकपृथिव्यां पञ्चानां कालादीनां नरकावासानां मध्यवर्ती, स च योजनलक्षं, पालक पालकदेवनिर्मितं सौधर्मेन्द्रसम्बन्धि यानञ्च तद्विमानश्च यानाय वा-गमनाय विमानं यानविमानं, नतु शाश्वतमिति, सर्वार्थसिद्धं पश्चानामनुत्तरविमानानां मध्यममिति ।।
स्थाना उद्देशः ३ लोके समा० सू० ३२८ द्विशरीराः सू०३२९
MUSINESS
॥२५०॥
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org