________________
सर्वत्र, नवरं मेण्ढविषाणं - मेषश्टङ्ग, गोमूत्रिका प्रतीता, 'अवलेहणिय'त्ति अवलिख्यमानस्य वंशशलाकादेर्या प्रतन्वी त्वक् साऽवलेखनिकेति, वंशीमूलकेतनकादिसमता तु मायायास्तद्वता मनार्जवभेदात्, तथाहि - यथा वंशीमूलमतिगुपिलवक्रमेवं कस्यचिन्मायाऽपीत्येव मल्पाल्पतराल्पतमानार्जवत्वेनान्याऽपि भावनीयेति, इयं चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनरूपा क्रमेण ज्ञेया, प्रत्येकमित्यन्ये, तेनैवानन्तानुबन्धिन्या उदयेऽपि देवत्वादि न विरुध्यते, एवं मानादयोऽपि वाचनान्तरे तु पूर्व क्रोधमानसूत्राणि ततो मायासूत्राणि, तत्र क्रोधसूत्राणि 'चत्तारि राइओ पन्नताओ, तं - पन्वराई पुढविराई रेणुराई जलराई, एवामेव चउन्विहे कोहे' इत्यादि मायासूत्राणीवाधीतानीति, फलसूत्रे अनुप्रविष्टः - तदुदयवर्त्तीति, शिलाविकारः शैलः स चासौ स्तम्भश्च - स्थाणुः शैलस्तम्भः एवमन्येऽपि, नवरं, अस्थि दारु च प्रतीतं, तिनिशो - वृक्षविशेषस्तस्य लता - कम्बा तिनिशलता, सा चात्यन्तमृद्वीति, मानस्यापि शैलस्तम्भादिसमानता तद्वतो नमनाभावविशेषात् ज्ञेयेति, मानोऽप्यनन्तानुबन्ध्यादिरूपः क्रमेण दृश्यः, तत्फलसूत्रं व्यक्त, कृमिरागे वृद्धसम्प्रदायोऽयं मनुष्यादीनां रुधिरं गृहीत्वा केनापि योगेन युक्तं भाजने स्थाप्यते, ततस्तत्र कृमय उत्पद्यन्ते, ते च वाताभिलाषिणः छिद्रनिर्गता आसन्ना भ्रमन्तो निर्धारलाला मुञ्चन्ति ताः कृमिसूत्रं भण्यते तच्च स्वपरिणामरागरञ्जितमेव भवति, अन्ये भणन्ति ये रुधिरे कृमय उत्पद्यन्ते तान् तत्रैव मृदित्वा कचवरमुत्तार्य तद्रसे कञ्चिद् योगं प्रक्षिप्य पट्टसूत्रं रञ्जयन्ति, स च रसः कृमिरागो भण्यते अनुत्तारीति, तत्र कृमीणां रागो-रञ्जकरसः कृमिरागस्तेन रक्तं कृमिरागरक्तम्, एवं सर्वत्र, नवरं कर्दमो - गोवाटादीनां खञ्जनं-दीपादीनां हरिद्रा प्रतीतैवेति, कृमिरागादिरक्तवस्त्रसमानता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org