________________
नसाधुन दायर्यादिविशेष एक
SAARISSAIRAAAAAO
उन्नतपरिणतः अशुभरसादिरूपमनुन्नतत्वमपहाय शुभरसादिरूपोन्नततया परिणत इत्येका, द्वितीये भने प्रणतपरिणत उक्तलक्षणोन्नतत्वत्यागात्, एतदनुसारेण तृतीयचतुर्थी वाच्यौ, विशेषसूत्रता चास्य पूर्वमुन्नतत्वप्रणतत्वे सामान्येनाभिहिते इह तु पूर्वावस्थातोऽवस्थान्तरगमनेन विशेषिते इति, एवं दाष्टोन्तिकेऽपि परिणतसूत्रमवगन्तव्यमिति ४, परि-| णामश्चाकारबोधक्रियाभेदात् त्रिधा, तत्राकारमाश्रित्य रूपसूत्रं, तत्र उन्नतरूपः संस्थानावयवादिसौन्दर्यात् ५, गृहस्थपुरुषोऽप्येवं, प्रव्रजितस्तु संविग्नसाधुनेपथ्यधारीति ६, बोधपरिणामापेक्षाणि चत्वारि सूत्राणि, तत्र उन्नतो जात्यादिगुणैरुच्चतया वा उन्नतमनाः-प्रकृत्या औदार्यादियुक्तमनाः, एवमन्येऽपि त्रयः, 'एवं मिति सङ्कल्पादिसूत्रेषु चतुर्भङ्गिकातिदेशोऽकारि लाघवार्थ, सङ्कल्पो-विकल्पो मनोविशेष एव विमर्श इत्यर्थः, उन्नतत्वं चास्यौदार्यादियुक्ततया सदर्थ| विषयतया वा ८, प्रकृष्टं ज्ञानं प्रज्ञा, सूक्ष्मार्थविवेचकत्वमित्यर्थः, तस्याश्चोन्नतत्वमविसंवादितया ९, तथा दर्शन दृष्टि:चक्षुर्ज्ञानं नयमतं वा, तदुन्नतत्वमप्यसंवादितयैवेति १०, क्रियापरिणामापेक्षमतः सूत्रत्रयम्, तत्र शीलाचारः, शीलं|समाधिस्तत्प्रधानस्तस्य वाऽऽचारः-अनुष्ठानं शीलेन वा-स्वभावेनाचार इति, उन्नतत्वं चास्यादूषणतया, वाचनान्तरे तु शीलसूत्रमाचारसूत्रं च भेदेनाधीयत इति ११, व्यवहारः-अन्योऽन्यदानग्रहणादिर्विवादो वा, उन्नतत्वमस्य श्लाघ्यत्वेनेति १३, पराक्रमः-पुरुषकारविशेषः परेषां वा-शत्रूणामाक्रमणं, तस्योन्नतत्वमप्रतिहतत्वेन शोभनविषयत्वेन चेति१२, उन्नतविपर्ययः सर्वत्र प्रणतत्वं भावनीयमिति, "एगे पुरीत्यादि, एतेषु मनःप्रभृतिषु सप्तसु चतुर्भनिकासूत्रेषु एक एव पुरुषजातालापकोऽध्येतव्यः, प्रतिपक्षो-द्वितीयपक्षो दृष्टान्तभूतः वृक्षसूत्रं नास्ति, नाध्येतव्यमितियावत् , इह मनःप्रभृतीनां दार्टी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org