________________
द्रव्यतो गेहाद्भावतः संसाराभिनन्दिदेहिनामावासभूतादविवेकगेहान्निष्क्रम्येति गम्यते अनगारितां-अगारी-गृही असंयतः तत्प्रतिषेधादनगारी-संयतस्तद्भावस्तत्ता तां साधुतामित्यर्थः, प्रव्रजितः-प्रगतः प्राप्त इत्यर्थः, अथवा विभक्तिपरिणामादनगारितया-निर्ग्रन्थतया 'प्रव्रजितः' प्रव्रज्यां प्रतिपन्नः, किंभूत इत्याह-संजमबहुले'त्ति संयमेन-पृथिव्या
दिसंरक्षणलक्षणेन बहुल:-प्रचुरो यः स तथा, संयमो वा बहुलो यस्य स तथा, एवं संवरबहुलोऽपि, नवरमाश्रवनितिरोधः संवरः, अथवा इन्द्रियकषायनिग्रहादिभेदः, एवं च संयमबहुलग्रहणं प्राणातिपातविरतेः प्राधान्यख्यापनार्थ,
यतः-"एकं चिय एत्थ वयं निद्दि जिणवरेहिं सव्वेहिं । पाणाइवायविरमणमवसेसा तस्स रक्खा ॥१॥” इति, एतच्च द्वितयमपि रागाद्युपशमयुक्तचित्तवृत्तेर्भवति, अत आह-समाधिबहुलः, समाधिस्तु-प्रशमवाहिता ज्ञानादि, समाधिः पुननिःस्नेहस्यैव भवतीत्याह-लूहे'रूक्षः-शरीरे मनसि च द्रव्यभावस्नेहवर्जितत्वेन परुषः, लूषयति वा कर्ममलमपनयतीति लूषः, कथमसावेवं संवृत्त इत्याह-यतः "तीरट्ठी" तीरं-पारं भवार्णवस्यार्थयत इत्येवंशीलस्तीरार्थी तीरस्थायी वा तीरस्थितिरिति वा प्राकृतत्वात् तीरहेत्ति, अत एव 'उवहाणवं ति उपधीयते-उपष्टभ्यते श्रुतमनेनेति उपधानं श्रुतविषयस्तपउपचार इत्यर्थः तद्वान् , अत एव–'दुक्खक्खवेत्ति दुःखम्-असुखं तत्कारणत्वाद्वा कर्म तत् क्षपयतीति दुःखक्षपः, कर्मक्षपणं च तपोहेतुकमित्यत आह-तवस्सीति तपोऽभ्यन्तरं कर्मेन्धनदहनज्वलनकल्पमनवरत-12 शुभध्यानलक्षणमस्ति यस्य स तपस्वी, 'तस्स गं'ति यश्चैवंविधस्तस्य णं वाक्यालङ्कारे नो तथाप्रकारम्-अत्यन्तघोरं
१ अत्र-एकमेवात्र व्रतं सर्वैर्जिनवरैर्निर्दिष्टं । प्राणातिपातविरमणमवशेषाणि तस्य रक्षार्थ ॥१॥
Jan Education International
For Personal & Private Use Only
www.janelibrary.org