________________
गुणमित्तग्गहणओ जम्हा ॥१॥" तथा "अण्णोऽणन्नो व गुणी होज गुणेहिं ?, जइ णाम सोऽणन्नो । णाणगुणमित्तगहणे घिप्पइ जीवो गुणी सक्खं ॥१॥ अह अन्नो तो एवं गुणिणो न घडादयो वि पच्चक्खा । गुणमित्तग्गहणाओ जीवम्मि कुतो विआरोऽयं ? ॥ २॥" ति, ये तु सकलपदार्थसार्थस्वरूपाविर्भावनसमर्थज्ञानवन्तस्तेषां सर्वात्मनैव प्रत्यक्ष इति । तथाऽनुमानगम्योऽप्यात्मा, तथाहि-विद्यमानकर्तृकमिदं शरीरं भोग्यत्वाद् , ओदनादिवत्, व्योमकुसुमं विपक्षः, स च कर्ता जीव इति, नन्वोदनकर्तृवन्मूर्त आत्मा सिध्यतीति साध्यविरुद्धो हेतुरिति, नैवं, संसारिणो मूर्त्तत्वेनाप्यभ्युपगमाद्, आह च-"जो कत्तादि स जीवो सज्झविरुद्धत्ति ते मई हुजा । मुत्ताइपसंगाओ तं नो संसारिणो दोसो ॥१॥” त्ति, न चायमेकान्तो, यदुत-लिङ्ग्यविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्यैव एकान्ततोऽ-| प्रवृत्तिरिति, हसितादिलिङ्गविशेषस्य ग्रहाख्यलिङ्गयविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात् , न च देह एव ग्रहो येनान्यदेहेऽदर्शनमविनाभावग्रहणनियामकं भवतीति, उक्तञ्च-“सोऽणेगंतो जम्हा लिंगेहि सम अदिपुब्बोवि । गहलिंगदरिसणातो गहोऽणुमेयो सरीरंमि ॥ १॥” इति, आगमगम्यत्वं त्वात्मनः 'एगे आया' अत एव वचनात् , नचास्थागमान्तरैर्विसंवादः संभावनीयः, सुनिश्चिताप्तप्रणीतत्वादस्येति, बहु वक्तव्यमत्र तच्च स्थानान्तरादवसेयमिति । किञ्च
१ अन्योऽनन्यो वा गुणी भवेत् गुणेभ्यः, यदि नाम सोऽनन्यः । ज्ञानमात्रगुणग्रहणे गृह्यते जीवो गुणी साक्षात् ॥ १॥ अथान्यस्तदैवं गुणिनो न घटादयोऽपि प्रत्यक्षाः । गुणमात्रग्रहणात् जीवे कुतो विचारोऽयम् ? ॥२॥ २ यः कादिः स जीवः साध्यविरुद्ध इति ते मतिर्भवेत् । मूर्तत्वादिप्रसङ्गात् तन्न संसारिणो दोषः ॥१॥ ३ सोऽनेकान्तो यस्मात् लिझैः सममदृष्टपूर्वोऽपि । ग्रहलिङ्गदर्शनातू ग्रहोऽनुमेयः शरीरे ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org