SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ रता अवयविद्रव्यतेतियावत्, तथा प्रकृष्टो देशः प्रदेशो - निरवयवोंऽशः स चासावर्थश्चेति प्रदेशार्थः तस्य भावः प्रदेशार्थता - गुणपर्यायाधारा ( रता अ ) वयवलक्षणार्थतेतियावत् नन्ववयवि द्रव्यमेव नास्ति, विकल्पद्वयेन तस्यायुज्य - मानत्वात्, खरविषाणवत्, तथाहि अवयविद्रव्यमवयवेभ्यो भिन्नमभिन्नं वा स्याद् ?, न तावदभिन्नमभेदे हि अवयविद्रव्यवदवयवानामेकत्वं स्याद्, अवयववद्वाऽवयविद्रव्यस्याप्यनेकत्वं स्यात्, अन्यथा भेद एव स्यात्, विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वादिति भिन्नं चेत् तत्तेभ्यस्तदा किमवयविद्रव्यं प्रत्येकमवयवेषु सर्वात्मना समवैति देशतो वेति ?, यदि सर्वात्मना तदाऽवयवसङ्ख्यमवयविद्रव्यं स्यात् कथमेकत्वं तस्य ?, अथ देशैः समवैति ततो यैर्देशैरवयवेषु तद्वर्त्तते तेष्वपि देशेषु तत्कथं प्रवर्त्तते देशतः सर्वतो वेति ?, सर्वतश्चेत्तदेव दूषणं, देशतश्चेत् तेष्वपि देशेषु कथमित्यादिरनवस्था स्यादिति, अत्रोच्यते, यदुक्तम्- 'विकल्पद्वयेन तस्यायुज्यमानत्वा' दिति तदयुक्तम्, एकान्तेन भेदाभेदयोरनभ्युपगमात्, अवयवा एव हि तथाविधैकपरिणामितया अवयविद्रव्यतया व्यपदिश्यन्ते, त एव च तथाविधविचित्र परिणामापेक्षया अवयवा इति, अवयविद्रव्याभावे तु एते घटावयवा एते च पटावयवा इत्येवमसङ्कीर्णावयवव्यवस्था न स्यात्, तथा च प्रतिनियतकार्यार्थिनां प्रतिनियतवस्तूपादानं न स्यात्, तथा च सर्वमसमञ्जसमापनीपद्येत, सन्निवेशवि शेषाद् घटाद्यवयवानां प्रतिनियतता भविष्यतीति चेत्, सत्यं केवलं स एव सन्निवेशविशेषोऽवयविद्रव्यमिति, यच्चोच्यते - विरुद्धधर्माध्यासो भेदनिबन्धनमिति, तदपि न सूक्तं, प्रत्यक्षसंवेदनस्य परमार्थापेक्षया भ्रान्तत्वेन संव्यवहारा|पेक्षया त्वभ्रान्तत्वेनाभ्युपगमादिति, यदि नाम भ्रान्तमभ्रान्तं कथमित्येवमत्रापि वक्तुं शक्यत्वादिति । किञ्च विद्यते Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy