SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ कमयनं यतो भवति तदज्झयणंति प्राकृतशैल्या भवतीति, आह च-"जेणं सुहप्पज्झयणं अज्झप्पाणयणमहियमयणं वा । बोहस्स संजमस्स व मोक्खस्स व तो तमज्झयणं ॥१॥" ति, अधीयते वा-पठ्यते आधिक्येन स्मर्यते गम्यते वा तदित्यध्ययनमिति, तथा यद्दीयमानं न क्षीयते स्म तदक्षीणं, तथा ज्ञानादीनामायहेतुत्वादायः, तथा पापानां कर्मणां क्षपण-, हेतुत्वात् क्षपणेति, आह च-"अज्झीणं दिजतं अव्वोच्छित्तिनयतो अलोगोव्व । आओ नाणाईणं झवणा पावाण खवणंति (कम्माणं)॥१॥” नामनिष्पन्ने तु निक्षेपे अस्यैकस्थानकमिति नाम, तत एकशब्दस्य स्थानशब्दस्य च निक्षेपो वाच्यः, तत्र एकस्य नामादिः सप्तधा, तदुक्तम्-"नामं १ ठवणा २ दविए ३ माउयपय ४ संगहेक्कए चेव ५। पजव ६ भावे य ७ तहा सत्तेते एक्कगा होति ॥१॥” तत्र नामैको यस्यैक इति नाम, स्थापनैकः पुस्तकादिन्यस्तैककाङ्कः, द्रव्यकः सचित्तादिस्त्रिधा, मातृकापदैकस्तु 'उप्पन्ने इ वा विगमे इ वा धुवे इ वा इत्येष मातृकावत्सकलवाङमयमूलतया अवस्थितानामन्यतरद्विवक्षितम् अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः, संग्रहैको येनैकेनापि ध्वनिना बहवः सङ्गृह्यन्ते, यथा जातिप्राधान्येन ब्रीहिरिति, पर्यायैकः शिवकादिरेकः पर्यायो, भावक औदयिकादिभावानामन्यतमो भाव इति, इह भावैकेन अधिकारो यतो गणनालक्षणस्थानविषयोऽयमेको गणना च सङ्घया सङ्ख्या च गुणो गुणश्च भाव इति, स्थानस्य तु निक्षेप उक्त एव, तत्र च गणनास्थानेनेहाधिकारः, ततः एकलक्षणं स्थानं-संख्याभेद १ येन शुभाध्यात्मानयनमध्यात्मानयनमधिकमयनं वा । बोधस्य संयमस्य वा मोक्षस्य वा ततस्तद् अध्ययनम् ॥ १॥ २ अक्षीणं दीयमानमव्युच्छित्तिनयतोऽलोक इव । आयो ज्ञानादीनां क्षपणा पापानां क्षपणमिति ॥ १॥ ३ नामस्थापनाद्रव्ये मातृकापदसंग्रहैककश्चैव । पर्ययभावे च तथा सप्तैते एकका भवन्ति ॥१॥ Jain Education Inter nal For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy