________________
EARCRACROREX
भेदाच्चतुर्विधं, तत्र क्षायोपशमिकभावरूपत्वादस्य भावप्रमाणे अवतारो, यत आह-"दबादि चउन्भेयं पमीयते जेण| तं पमाणंति । इणमज्झयणं भावोत्ति भावमाणे समोयरति ॥१॥"त्ति, भावप्रमाणं च गुणनयसङ्ख्याभेदतस्त्रिधा, तत्रास्य गुणप्रमाणसख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु न सम्प्रति, यदाह-“मूढनेइयं सुयं कालियं तु न नया समोयरंति इहं । अपुहुत्ते समोयारो नत्थि पुहुत्ते समोयारो ॥१॥"त्ति, गुणप्रमाणं तु द्विधा-जीवगुणप्रमाणमजीव-11 गुणप्रमाणं च, तत्र अस्य जीवोपयोगरूपत्वात् जीवगुणप्रमाणेऽवतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतख्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानागमात्मके प्रकृताध्ययनस्याप्तोपदेशरूपत्वादागमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रार्थोभयात्मनि तथा चाह-जीवाणण्णत्तणओ जीवगुणे बोह-| भावओ णाणे । लोगुत्तरसुत्तत्थोभयागमे तस्स भावाओ ॥१॥” तत्राप्यात्मानन्तरपरम्परागमभेदतस्त्रिविधेऽर्थतस्ती-15 र्थकरगणधरतदन्तेवासिनः सूत्रतस्तु गणधरतच्छिष्यतत्प्रशिष्यानपेक्ष्य यथाक्रममात्मानन्तरपरम्परागमेष्ववतारः, सवयाप्रमाणमन्यत्र प्रपश्चितं तत एवावधारणीयं, तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि कालिकश्रुतदृष्टिवाद-15 श्रुतपरिमाणभेदतो द्विभेदायां कालिकश्रुतपरिमाणसङ्ख्यायां, कालिकश्रुतत्वादस्येति, तत्रापि शब्दापेक्षया सख्येयाक्षरपदाद्यात्मकतया सङ्खचातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायां, अनन्तगमपर्यायत्वादागमस्य,
१ द्रव्यादि चतुर्भेदं प्रमीयते येन तत्प्रमाणमिति । इदमध्ययनं भावो भावमाने समवतरति ॥१॥ २ मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह । | अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः॥१॥ ३ जीवानन्यत्वात् जीवगुणे बोधभावात् ज्ञाने । लोकोत्तरसूत्रार्थोभयागमे तस्य भावात् ॥१॥
AAAAAALCHARLS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org