________________
-420
वृत्तिः
श्रीसमवा-२ प्रतिमाः-अभिग्रहा भिक्षुप्रतिमाः तत्र मासिक्यादयः सप्तमासिक्यन्ताः सप्त मासेन मासेनोत्तरोत्तरं वृद्धा एकैकाभिर्भ-II
१२ समयांगे
वायाध्य. क्तपानदत्तिभिश्चेति, तथा सप्त रात्रिन्दिवानि-अहोरात्राणि यासु ताः सप्तरात्रिन्दिवास्ताश्च तिस्रो भवन्तीति, सप्तानामु श्रीअभय पर्यष्टमी प्रथमा सप्तरात्रिन्दिवा एवं नवमी द्वितीया दशमी तृतीया, आसां च तिसृणामप्यनुष्ठानकृतो विशेषः, तथा
हि-अष्टम्यां चतुर्थभक्तं तपः प्रामादेवहिरवस्थानमुत्तानादिकं च स्थानमिति, नवम्यां तु उत्कटुकाद्यासनेन विशेषः, ॥२२॥
दशम्यां वीरासनादिना, तथा अहोरात्रप्रमाणाऽहोरात्रिकी एकादशी, सा च षष्ठभक्तेन भवतीति विशेषः, एकरात्रिकी-रात्रिप्रमाणा, सा चाष्टमभक्तपर्यन्तरात्री प्रलम्बभुजस्य संहतपादस्पदवनतकायस्यानिमेषनयनस्येति । तथासम्-एकीभूय समानसमाचाराणां साधूनां भोजनं सम्भोगः, स चोपध्यादिलक्षणविषयभेदात् द्वादशधा, तत्र 'उवही'त्यादिरूपकद्वयं, तत्रोपधिर्वस्त्रपात्रादिस्तं सम्भोगिकः साम्भोगिकेन सार्द्धमुगमोत्पादनैषणादोषैर्विशुद्धं गृह्णन् शुद्धः अशुद्धं गृह्णन् प्रेरितः प्रतिपन्नप्रायश्चित्तो वारत्रयं यावत्सम्भोगार्हश्चतुर्थवेलायां प्रायश्चित्तं प्रतिपद्यमानोऽपि विसम्भोगार्ह इति, विसम्भोगिकेन-पावस्थादिना वा संयत्या वा सार्द्धमुपधिं शुद्धमशुद्धं वा निष्कारणं गृह्णन् प्रेरितः प्रतिपन्नप्रा
यश्चित्तोऽपि वेलात्रयस्योपरि न सम्भोग्यः, एवमुपधेः परिकर्म परिभोगं वा कुर्वन सम्भोग्यो विसम्भोग्यश्चेति, उक्तं IPIच-“एगं व दो व तिन्नि व आउटुंतस्स होइ पच्छित्तं । [आलोचयत इत्यर्थः] आउटुंतेवि तओ परेण तिण्हं विसंयोगो
॥१॥" त्ति, 'सुयत्ति' सम्भोगिकस्सान्यसांभोगिकस्य वोपसम्पन्नस्य श्रुतस्य वाचनाप्रच्छनादिकं विधिना कुर्वन् तथा
Jain Education
a
l
For Personal & Private Use Only
Infinelibrary.org