________________
श्रीसमवायांगे श्रीअभय० वृत्ति:
॥१३८॥
तुरुष्कः- सिल्हकं गन्धद्रव्यमेव एतानि च तानि 'डज्यंति' त्ति दह्यमानानि यानि तानि तथा तेषां यो धूमो 'मघमघेत 'त्ति अनुकरणशब्दोऽयं मघमघायमानो बहलगन्ध इत्यर्थः तेनोद्धुराणि - उत्कटानि यानि तानि तथा तानि च तान्यभिरामाणि - रमणीयानीति समासः, तथा सुगन्धयः- सुरभयो ये वरगन्धाः - प्रधानवासास्तेषां गन्धः - आमोदो येष्वस्ति तानि सुगन्धिवरगन्धिकानि, तथा गन्धवर्त्तिः - गन्धद्रव्याणां गन्धयुक्तिशास्त्रोपदेशेन निर्वर्त्तितगुटिका तद्भूतानि-तत्कल्पानीति गन्धवर्त्तिभूतानि प्रवरगन्धगुणानीत्यर्थः, तथा अच्छानि आकाशस्फटिकवत् 'सह' त्ति लक्ष्णानि सूक्ष्मस्कन्धकनिष्पन्नत्वात् श्लक्ष्णदलनिष्पन्नपटवत् 'लण्ड' त्ति लक्ष्णानि मसृणानीत्यर्थः, घुटितपटवत्, 'घट्ट' त्ति | घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् 'मट्ठत्ति मृष्टानीव सृष्टानि सुकुमारशाणया पाषाणप्रतिमेव शोधितानि वा प्रमार्जनिकयेव, अत एव 'नीरय'त्ति नीरजांसि रजोरहितत्वात् 'निम्मल'त्ति निर्मलानि कठिनमलाभावात् 'वितिमिर'त्ति वितिमिराणि निरन्धकारत्वात् 'विसुद्ध'त्ति विशुद्धानि निष्कलङ्कत्वान्न चन्द्रवत् सकलङ्कानीत्यर्थः तथा 'सप्पह' ति सप्रभाणि सप्रभावाणि अथवा खेन- आत्मना प्रभान्ति - शोभन्ते प्रकाशन्ते वेति खप्रभाणि यतः 'समिरीय'त्ति समरीचीनि - किरणानि, अत एव 'सउज्जोय'त्ति सहोद्योतेन - वस्त्वन्तरप्रकाशनेन वर्त्तन्ते इति सोद्यो - | तानि 'पासाईय'त्ति प्रासादीयानि मनःप्रसत्तिकराणि 'दरिसणिज्ज' त्ति दर्शनीयानि तानि हि पश्यंश्चक्षुषा न श्रमं गच्छतीति भावः, 'अभिरुव' त्ति अभिरूपाणि कमनीयानि 'पडिरुव' त्ति प्रतिरूपाणि द्रष्टारं द्रष्टारं प्रति रमणीयानि
Jain Educational
For Personal & Private Use Only
१५० भ वनादिवर्णनम्.
॥१३८॥
ainelibrary.org