________________
हैभाषितो गणधरैरपि पूर्वगतश्रुतमेव पूर्व रचितं पश्चादाचारादि, नन्वेवं यदाचारनियुक्त्यामभिहितं 'सव्वेसिं आयारो //
पढमो' इत्यादि तत्कथम्?, उच्यते, तत्र स्थापनामाश्रित्य तथोक्तमिह त्वक्षररचनांप्रतीत्य भणितं पूर्व पूर्वाणि कृतानीति, तच पूर्वगतं चतुदर्शविधं प्रज्ञप्तं, तद्यथा-'उप्पाये'त्यादि, तत्रोत्पादपूर्व प्रथम, तत्र च सर्वद्रव्याणां पर्यवाणां चोत्पादभावमङ्गीकृत्य प्रज्ञापना कृता, तस्य च पदपरिमाणमेका कोटी, अग्गेणीयं द्वितीयं, तत्रापि सर्वेषां द्रव्याणां पर्यवाणां जीवविशेषाणां चाग्रं-परिमाणं वर्ण्यत इत्यग्रेणीयं तस्य पदपरिमाणं षण्णवतिः पदशतसहस्राणि, 'पीरियं'ति वीर्यप्रवाई तृतीयं, तत्राप्यजीवानां जीवानां च सकर्मेतराणां वीर्य प्रोच्यत इति वीर्यप्रवादं, तस्यापि सप्ततिः पदशतसहस्राणि परिमाणं, अस्तिनास्तिप्रवादं चतुर्थ, यद्यलोके यथास्ति यथा वा नास्ति, अथवा स्याद्वादाभिप्रायतः तदेवास्ति तदेव नास्तीत्येवं प्रवदतीति अस्तिनास्तिप्रवादं भणितं, तदपि पदपरिमाणतः षष्टिः पदशतसहस्राणि, ज्ञानप्रवादं पञ्चमं, तस्मिन् मतिज्ञानादिपञ्चकस्य भेदप्ररूपणा यस्मात् कृता तस्मात् ज्ञानप्रवाद, तस्मिन् पदपरिमाणमेका कोटी एकपदो
नेति, सत्यप्रवादं पष्ठं सत्यं-संयमः सत्यवचनं वा तद्यत्र सभेदं सप्रतिपक्षं च वर्ण्यते तत्सत्यप्रवादं, तस्य पदपरिमाणं ६ एका पदकोटी षट् च पदानीति, आत्मप्रवादं सप्तमं 'आय'त्ति आत्मा सोऽनेकधा यत्र नयदर्शनैर्वर्ण्यते तदात्मप्र-13
वादं, तस्य पदपरिमाणं षड्विंशतिः पदकोट्यः कर्मप्रवादमष्टमं ज्ञानावरणादिकमष्टविधं कर्मप्रकृतिस्थित्यनुभागप्रदेशादिभिर्भेदैरन्यैश्चोत्तरोत्तरभेदैर्यत्र वर्ण्यते तत्कर्मप्रवाद, तत्परिमाणमेका पदकोटी अशीतिश्च सहस्राणीति, प्रत्या-|
Jain Education
s
For Personal & Private Use Only
netbrary.org