SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सङ्कलनया द्वे शते भिक्षाणामष्टाशीत्यधिके भवतः अत उक्तं-'द्वाभ्यां चेत्यादि, यावत्करणात् 'अहाकप्पं अहामग्गं फासिया पालिया सोहिया तीरिया किट्टिया सम्म आणाए आराहियावि भवतीति दृश्यं, 'सवेवि ण'मित्यादि इतोऽष्टमे नन्दीश्वराख्य द्वीपे पूर्वादिषु दिक्षु चत्वारोऽञ्जनकपर्वता भवन्ति, तेषां च प्रत्येकं चतसृषु दिक्षु चतस्रः पुष्करिण्यो भवन्ति, तासां च मध्यभागेषु प्रत्येकं दधिमुखपर्वता भवन्ति, ते च षोडश पल्यङ्कसंस्थानसंस्थिताः, यतः सर्वत्र समा विष्कम्भेन, मूलादिषु दशसहस्रविष्कम्भत्वात्तेषां, क्वचित्तु 'विक्खंभुस्सेहेणंति पाठस्तत्र तृतीयैकवचनलोपदर्शनाद्विष्कम्भेनेति व्याख्येयं, तथा उत्सेधेनोचत्वेन चतुःषष्टिश्चतुःषष्टिरिति, 'सोहम्मी'त्यादि, सौधर्मे द्वात्रिंशदीशानेऽष्टाविंशतिः ब्रह्मलोके च चत्वारि विमानलक्षाणि भवन्तीति सर्वाणि चतुःषष्टिरिति, 'चउसट्ठिलट्ठीए'त्ति चतुःषष्टिर्यष्टीना-शरीराणां यस्मिन्नसौ चतुःषष्टियष्टिकः 'मुत्तामणिमयेति मुक्ताश्च-मुक्ताफलानि मणयःचन्द्रकान्तादिरत्नविशेषाः मुक्तारूपा वा मणयो-रत्नानि मुक्तामणयस्तद्विकारो मुक्तामणिमयः ॥ ६४ ॥ जम्बुद्दीवे णं दीवे पणसहि सूरमंडला प०, थेरे णं मोरियपुत्ते पणसहिवासाई अगारमज्झे वसित्ता मुंडे भवित्ता अगाराओ अणयारियं पव्वइए, सोहम्मवर्डिसयस्स णं विमाणस्स एगमेगाए बाहाए पणसहिँ पणसहि भोमा प० ॥ सूत्रं ६५॥ अथ पञ्चषष्टिस्थानकं, तत्र 'मोरियपुत्ते णं'ति मौर्यपुत्रो भगवतो महावीरस्य सप्तमो गणधरस्तस्य पञ्चषष्टिवर्षाणि गृहस्थपर्यायः, आवश्यकेऽप्येवमेवोक्तो, नवरमेतस्यैव यो बृहत्तरो भ्राता मण्डितपुत्राभिधानः षष्ठो गणधरः तद्दीक्षा Jain Education Re For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy