SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायांगे श्री अभय ० वृत्ति: ॥ ६९ ॥ Jain Education अथ षट्चत्वारिंशत्स्थानके किञ्चिल्लिख्यते, 'दिडिवायस्स' त्ति द्वादशाङ्गस्य 'माउयापय'त्ति सकलवाङ्मयस्य अकारादिमातृकापदानीव दृष्टिवादार्थप्रसवनिबन्धनत्वेन मातृकापदानि उत्पादविगमधौव्यलक्षणानि तानि च सिद्धश्रेणिमनुष्य श्रेण्यादिना विषयभेदेन कथमपि भिद्यमानानि षट्चत्वारिंशद्भवन्तीति सम्भाव्यन्ते, तथा 'बंभीए णं लिवीए'त्ति लेख्यविधौ षट्चत्वारिंशन्मातृकाक्षराणि तानि चाकारादीनि हकारान्तानि सक्षकाराणि ऋऋ ऌलू ळ | इत्येवं तदक्षरपञ्चकवर्जितानि सम्भाव्यन्ते, [ खरचतुष्टयवर्जनात् विसर्गान्तानि द्वादश पञ्चविंशतिः स्पर्शाः चतस्रोऽन्तःस्थाः ऊष्माणश्चत्वारः क्षवर्णश्चेति षट्चत्वारिंशद्वर्णाः ] तथा 'पभंजणस्स' त्ति औदीच्यस्येति ॥ ४६ ॥ जया णं सूरिए सव्वब्भितरमंडलं उवसङ्कमित्ता णं चारं चरइ तया णं इहगयस्स मणूसस्स सत्तचत्तालीसं जोयणसहस्सेहिं दोहि य तेवट्ठेहिं जोयणसएहिं एक्कवीसाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्खुफासं हव्वमागच्छइ, थेरे णं अग्गिभूई सत्तचालीसं वासाई अगारमज्झे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पवइए ॥ सूत्रं ४७ ॥ अथ सप्तचत्वारिंशत्स्थानके किमप्युच्यते, 'जया ण' मित्यादि, इह लक्षप्रमाणस्य जम्बूद्वीपस्योभयतोऽशीत्युत्तरेशीत्युत्तरे योजनशते ३६० अपनीते सर्वाभ्यन्तरस्य सूर्यमण्डलस्य विष्कम्भो भवति ९९६४० तत्परिधिस्त्रीणि लक्षाणि पञ्चदश सहस्राणि एकोननवत्यधिकानि ३१५०८९, एतच्च सूर्यो मुहूर्त्तानां षष्ट्या गच्छतीति षष्ट्याऽस्य भागहारे मुहूर्त्तगतिर्लभ्यते, सा च पञ्च योजनसहस्राणि द्वे चैकपञ्चाशदुत्तरे योजनशते एकोनत्रिंशच षष्टिभागा योजनस्य onal For Personal & Private Use Only ४६-४७ समवा याध्य. ॥ ६९ ॥ inelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy