________________
श्रीसमवा
यांगे श्रीअभय वृत्तिः
॥५७॥
आहारवे समुप्पज्जइ, संतेगइया भवसिद्धिया जीवा जे बत्तीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइ- ।
|३२ समस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं ३२॥
वायाध्य. द्वात्रिंशतं स्थानकमपि व्यक्तं, नवरं युज्यन्ते इति योगाः-मनोवाकायव्यापाराः ते चेह प्रशस्ता एव विवक्षितास्तेषां * शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण सङ्ग्रहणानि सङ्ग्रहाः प्रशस्तयोगसंग्रहाः प्रशस्तयोगसङ्ग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शकं श्लोकपञ्चकं 'आलोयणे' त्यादि, अस्य गमनिका-तत्र आलोयण'त्ति मोक्षसाधनयोगसङ्ग्रहाय शिष्येणाचार्यायालोचना दातव्या १ 'निरवलावे'त्ति आचार्योऽपि | मोक्षसाधकयोगसङ्ग्रहायैव दत्तायामालोचनायां निरपलापः स्यात् , नान्यस्मै कथयेदित्यर्थः २, 'आवईसु दढधम्मय'-2 त्ति प्रशस्तयोगसङ्ग्रहाय साधुनाऽऽपत्सु-द्रव्यादिभेदासु दृढधर्मता कार्या, सुतरां तासु दृढधर्मिणा भाव्यमित्यर्थः ३, ४ 'अणिस्सिओवहाणे य'त्ति शुभयोगसङ्ग्रहायैवानिश्रितं च-तदन्यनिरपेक्षमुपधानं च-तपोऽनिश्रितोपधानं परसाहाय्यानपेक्षं तपो विधेयमित्यर्थः४, 'सिक्ख'त्ति योगसहाय शिक्षाऽऽसेवितव्या, सा च सूत्रार्थग्रहणरूपा प्रत्युपेक्षाद्यासेवनात्मिका चेति द्विधा, ५, 'निप्पडिकम्मय'त्ति तथैव निष्प्रतिकर्मता शरीरस्य विधेया ६ ॥१॥'अण्णायय'
॥५७॥ त्ति तपसोऽज्ञातता कार्या, यशःपूजाद्यर्थित्वेनाप्रकाशयद्भिस्तपः कार्यमित्यर्थः ७, 'अलोभे य'त्ति अलोभता विधेया ८, 'तितिक्ख'त्ति तितिक्षा परीषहादिजयः९, 'अजवेत्ति आर्जव:-ऋजुभावः १०, 'सुईत्ति शुचिः सत्यं संयम
Jain Educationa l
For Personal & Private Use Only
rebrary.org