SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ मुइयाए समणे'त्ति, भगवतेति पूर्ववत् , महांश्चासौ वीरश्चेति महावीरस्तेन, इदं च महासात्त्विकतया प्राणप्रहाणप्रवणपरीषहोपसर्गनिपातेऽप्यप्रकम्पत्वेन पीयूषपानप्रभुभिराविर्भावितम् , आह च–'अयले भयभेरवाणं खंतिखमे परीसहोवसग्गाणं पडिमाणं पारए देवेहिं (से णाम) कए महावीरे'त्ति, कथम्भूतेनेत्याह-आदौ-प्राथम्येन श्रुतधर्ममाचारादिग्रन्थात्मकं करोति-तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरस्तेन, तथा तरन्ति येन संसारसागरमिति तीर्थ-| प्रवचनं तदव्यतिरेकादिह सङ्घस्तीर्थ तस्य करणशीलत्वात्तीर्थकरस्तेन, तीर्थकरत्वं च तस्य नान्योपदेशबुद्धत्वपूर्वकमि| त्यत आह-खयम्-आत्मनैव नान्योपदेशतः सम्यग्बुद्धो हेयोपादेयवस्तुतत्त्वं विदितवानिति खयंसम्बुद्धस्तेन, स्वयंसम्बुद्धत्वं चास्य न प्राकृतस्येव संभाव्यं पुरुषोत्तमत्वादस्येत्यत आह-पुरुषाणां मध्ये तेन तेनातिशयेन रूपादिनोगतत्वाद्-ऊर्ववर्तित्वादुत्तमः पुरुषोत्तमस्तेन, अथ पुरुषोत्तमत्वमेव सिंहाद्युपमानत्रयेणास्य समर्थयन्नाह-सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः, लोकेन हि सिंहे शौर्यमतिप्रकृष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः, शौर्य तु | भगवतो बाल्ये प्रत्यनीकदेवेन भाप्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्द्धमानामरशरीरकुजताकरणाच इत्यतस्तेन, तथा वरं च तत्पुण्डरीकंच वरपुण्डरीकं-धवलं सहस्रपत्रं पुरुष एव वरपुण्डरीकं पुरुषवरपुण्डरीकं, धवलता चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वैश्च शुभैरनुभावैः शुद्धत्वादित्यतस्तेन, तथा वरश्चासौ गन्ध १ सहसन्मल्या श्रमणः। २ अचलो भयभैरवयोः क्षान्तिक्षमः परिषहोपसर्गाणां प्रतिमानां पारगो देवैः कृतं महावीर इति । Jain Educa For Personal & Private Use Only * nelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy