________________
पूर्ववत्, एते च यथा सामान्येनैकेन्द्रियास्त या भवन्तीत्यत एवोकम्-'एसो जहा पढमुद्देसो'इत्यादीति ॥ चतर्थे त'चरमसमयकडजुम्मरएगिदिय'त्ति, इह चरमसमयशब्देनैकेन्द्रियाणां मरणसमयो विवक्षितः स च परभवायुषः प्रथमसमय एव तत्र च वर्तमानाश्चरमसमयाः सङ्ख्यया च कृतयुग्मकृतयुग्मा ये एकेन्द्रियास्ते तथा 'एवं जहा पढमसम| यउद्देसओ'त्ति यथा प्रथमसमय एकेन्द्रियोद्देशकस्तथा चरमसमयएकेन्द्रियोदेशकोऽपि वाच्यः, तत्र हि औधिकोहे||शकापेक्षया दश नानात्वान्युक्तानि इहापि तानि तथैव समानस्वरूपत्वात् , प्रथमसमय चरमसमयानां यः पुनरिह विशे|पस्तं दर्शयितुमाह-'नवरं देवा न उववजंती'त्यादि, देवोत्पादेनैवैकेन्द्रियेषु तेजोलेश्या भवति न चेह देवोत्पादः 8| सम्भवतीति तेजोलेश्या एकेन्द्रिया न पृच्छयन्त इति ॥ ३५।४ ॥ पंचमे तु-'अचरमसमयकडजुम्मरएगिदिय'त्ति ||
न विद्यते चरमसमय उक्तलक्षणो येषां तेऽचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति समासः ॥५॥ षष्ठे तु–'पढमपढमसमयकडजुम्मरएगिदिय'त्ति, एकेन्द्रियोत्पादस्य प्रथमसमययोगाद्ये प्रथमाः प्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमप्रथमसमयकृतयुग्मकृतयुग्मकेन्द्रियाः ॥६॥ सप्तमे तु-पढमअपढमसमयकडजुम्मरएगिदिय'त्ति, प्रथमास्तथैव येऽप्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतर्येषामेकेन्द्रियाणां ते प्रथमाप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः, इह चैकेन्द्रियत्वोलादप्रथमसनयवर्तित्वे तेषां यद्विवक्षितसङ्ख्यानुभूतेरप्रथमसमयवर्तित्वं तत्प्राग्भवसम्बन्धिनी तामाश्रित्येत्यवसेयम् , एवमुत्तरत्रापीति ॥ अष्टमे तु–'पढमचरमसमयकडजुम्मरएगिंदिय'त्ति, प्रथमाश्च ते विवक्षितसङ्ख्यानुभूतेः प्रथमसमयवर्तित्वात् चरमसमयाश्च-मरणसमयवर्तिनः परि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org