________________
-
४ ३ विसेसअहिया ४ दुवेऽणंता ६॥१॥" [जीवाः पुद्गलाः समया द्रव्याणि प्रदेशाः पर्यवाश्चैव स्तोका अनन्ता अनन्ता 8 विशेषाधिका द्वावनन्तौ ॥१॥] इह भावना-यतो जीवाः प्रत्येकमनन्तानन्तैः पुद्गलैर्बद्धाः प्रायो भवन्ति, पुद्गलास्तु जीवैः संबद्धा असंबद्धाश्च भवन्तीत्यतः स्तोकाः पुद्गलेभ्यो जीवाः, यदाह-"जं पोग्गलावबद्धा जीवा पाएण होति तो थोवा । जीवेहिं विरहिया अविरहिया व पुण पोग्गला संति ॥२॥" [ यत्पुद्गलावबद्धाः प्रायेण जीवास्ततः स्तोका भवन्ति जीवैविरहिता अविरहिताश्च पुनः पुद्गलाः सन्ति ॥१॥] जीवेभ्योऽनन्तगुणाः पुद्गलाः, कथं ?, यत्तैजसादिशरीरं येन जीवेन परिगृहीतं तत्ततो जीवात्पुद्गलपरिमाणमाश्रित्यानन्तगुणं भवति, तथा तैजसशरीराप्रदेशतोऽनन्तगुणं कार्मणं, |एवं चैते जीवप्रतिबद्धे अनन्तगुणे, जीवविमुक्ते च ते ताभ्यामनन्तगुणे भवतः, शेषशरीरचिन्ता त्विह न कृता, यस्मा|त्तानि मुक्तान्यपि स्वस्वस्थाने तयोरनन्तभागे वर्तन्ते, तदेवमिह तैजसशरीरपुद्गला अपि जीवेभ्योऽनन्तगुणाः किं पुनः कार्मणादिपुद्गलराशिसहिताः, तथा पञ्चदशविधप्रयोगपरिणताः पुद्गलाः स्तोकास्तेभ्यो मिश्रपरिणताः अनन्तगुणास्तेभ्योऽपि विनसापरिणता अनन्तगुणास्त्रिंविधा एव च पुद्गलाः सर्व एव भवन्ति, जीवाश्च सर्वेऽपि प्रयोगपरिणतपुद्गलानां प्रतनुकेऽनन्तभागे वर्तन्ते, यस्मादेवं तस्माज्जीवेभ्यः सकाशात्पुद्गला बहुभिरनन्तानन्तकैर्गुणिताः सिद्धा इति, आह च| "जं जेण परिग्गहियं तेयादि जिएण देहमेकेक । तत्तो तमणंतगुणं पोग्गलपरिणामओ होइ॥१॥ तेयाओ पुण कम्मगमणंतगुणियं जओ विणिद्दिढ । एवं ता अवबद्धाई तेयगकम्माई जीवहिं॥२॥ इत्तोऽनंतगुणाई तेसिं चिय जाणि होति मुक्काई । इह पुण थोवत्ताओ अग्गहणं सेसदेहाणं ॥३॥ तेसिं मुक्काइंपिहों।त सठाणऽणंतभागंमि । तेणं तदग्गहणमिहं| .
-
१ च पुगलापुद्गलास्तोला अपि जीवहन कृता.
-
-
dain Education International
For Personal & Private Use Only
www.janelibrary.org