________________
RECACASSACROSMOCRACK
जाव संवेहोत्ति, जइ संखेलवासाउयसन्निमणुस्से० संखेन्जवासाउयाणं जहेव असुरकुमारेसु उववजमाणाणं तहेव नव गमगा भाणियचा, नवरं जोतिसियठितिं संवेहं च जाणेजा, सेसं तं चेव निरवसेसं । सेवं भंते ! २त्ति ॥ (सूत्रं ७१४)॥२४-२३॥
'जहन्नेणं दो अट्टभागपलिओवमाईति द्वौ पल्योपमाष्टभागावित्यर्थः तत्रैकोऽसङ्ख्यातायुष्कसम्बन्धी द्वितीयस्तु तारकज्योतिष्कसम्बन्धीति, 'उक्कोसेणं चत्तारि पलिओवमाई वाससयसहस्समन्भहियाईति त्रीण्यसङ्ख्यातायु:- 8 सत्कानि एकं च सातिरेकं चन्द्रविमानज्योतिष्कसत्कमिति, तृतीयगमे 'ठिई जहन्नेणं पलिओवमं वाससयसहस्सम
भहियंति यद्यप्यसङ्ख्यातवर्षायुषां सातिरेका पूर्वकोटी जघन्यतः स्थितिर्भवति तथाऽपीह पल्योपमं वर्षलक्षाभ्यधिकमुक्तं, एतत्प्रमाणायुष्केषु ज्योतिष्केषूत्पत्स्यमानत्वाद्, यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते, एतच्च प्रागुप|दर्शितमेव, चतुर्थे गमे जघन्यकालस्थितिकोऽसङ्ख्यातवर्षायुरौघिकेषु ज्योतिष्केषूत्पन्नः, तत्र चासङ्ख्यातायुषो यद्यपि पल्योपमाष्टभागाद्धीनतरमपि जघन्यत आयुष्कं भवति तथाऽपि ज्योतिषां ततो हीनतरं नास्ति, स्वायुस्तुल्यायुर्बन्धकाश्चोत्कर्षतोऽसङ्ख्यातवर्षायुष इतीह जघन्यस्थितिकास्ते पल्योपमाष्टभागायुषो भवन्ति, ते च विमलवाहनादिकुलकरकालात्पूर्वतरकालभुवो हस्त्यादयः औधिकज्योतिष्का अप्येवंविधा एव तदुत्पत्तिस्थानं भवन्तीति 'जहन्नेणं अट्ठभागपलिओवमट्टिईएसु' इत्याधुक्तम् , ओगाहणा जहन्नेणंधणुहपुहत्तंति यदुक्तं तत्पल्योपमाष्टभागमानायुषो विमलवाहनादिकुलकरकालात्पूर्वतरकालभाविनो हस्त्यादिव्यतिरिक्तक्षुद्रकायचतुष्पदानपेक्ष्यावगन्तव्यं, 'उक्कोसेणं सातिरेगाइं अट्ठारसधणुसयाई'ति
150655AMACROGRAM
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org