SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ SAMSRUSSACROSSAGAR कायसंवेधे इति, 'वालयप्पभाए अट्ठावीसं,'तत्र सप्त सागरोपमाण्युत्कर्षतः स्थितिरुक्ता सा च चतुर्गुणा अष्टाविंशतिः। * स्यात्, एवमुत्तरत्रापीति, 'वालयप्पभाए पंचविहसंघयणित्ति आद्ययोरेव हि पृथिव्योः सेवार्तेनोत्पद्यन्ते, एवं चतुर्थी ४ पञ्चमी ३ षष्ठी २ सप्तमीषु १ एकैकं संहननं हीयत इति ॥ अथ सप्तमपृथिवीमाश्रित्याह-पज्जत्ते'त्यादि, 'इथिवेया न उववजति'त्ति षष्ठ्यन्तास्वेव पृथिवीषु स्त्रीणामुत्पत्तेः 'जहन्नेणं तिन्नि भवग्गहणाई' ति मत्स्यस्य सप्तमपृ. थिवीनारकत्वेनोत्पद्य पुनर्मत्स्येष्वेवोत्पत्तौ 'उक्कोसेणं सत्त भवग्गहणाईति मत्स्यो मृत्वा १ सप्तम्यां गतः २ पुनर्मत्स्यो जातः ३ पुनः सप्तम्यां गतः ४ पुनरपि मत्स्यः ५ पुनरपि तथैव गतः ६ पुनर्मत्स्यः ७ इत्येवमिति ।। 'कालादेसेण'मित्यादि, इह द्वाविंशतिः सागरोपमाणि जघन्यस्थितिकसप्तमपृथ्वीनारकसम्बन्धीनि अन्तर्मुहूर्तद्वयं च र प्रथमतृतीयमत्स्यभवसम्बन्धीति, 'छावहिं सागरोवमाईति वारत्रयं सप्तम्यां द्वाविंशतिसागरोपमायुष्कतयोत्पत्तेः चतसश्च पूर्वकोटयश्चतुषु नारकभवान्तरितेषु मत्स्यभवेष्विति, अतो वचनाच्चैतदवसीयते-सप्तम्यां जघन्यस्थितिषूत्कर्षतस्त्रीनेव | वारानुत्पद्यत इति, कथमन्यथैवंविधं भवग्रहणकालपरिमाणं स्यात् , इह च काल उत्कृष्टो विवक्षितस्तेन जघन्यस्थितिषु त्रीन् वारानुत्पादितः, एवं हि चतुर्थी पूर्वकोटिर्लभ्यते, उत्कृष्टस्थितिषु पुनारद्वयोत्पादनेन षट्षष्टिः सागरोपमाणां भवति पूर्वकोट्यः पुनस्तिस्र एवेति १ 'सो चेव जहन्नकालटिइएसु' इत्यादिस्तु द्वितीयो गमः २ 'सो चेव उक्कोस-3 | कालहिइसु उववजेजा'इत्यादिस्तु तृतीयः, तत्र च 'उक्कोसेणं पंच भवग्गहणाई'ति त्रीणि मत्स्यभवग्रहणानि द्वे च नारकर्भवग्रहणे, अत एव वचनादुत्कृष्टस्थितिषु सप्तम्यां वारद्वयमेवोत्पद्यत इत्यवसीयते ३ 'सो चेव जहन्नकालटि Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy