________________
'पुढविक्काइए णं भंते' इत्यादि, इह पूज्यव्याख्या यथा वनस्पतिरन्यस्योपर्यन्यः स्थितस्तत्तेजोग्रहणं करोति एवं पृथिवीकायिकादयोऽप्यन्योऽन्यसंबद्धत्वात्तत्तद्रूपं प्राणापानादि कुर्वन्तीति, तत्रैकः पृथिवीकायिकोऽन्यं स्वसंबद्धं पृथिवीकायिकम् अनिति-तद्रूपमुच्छासं करोति, यथोदरस्थितकर्पूरः पुरुषः कर्पूरस्वभावमुच्छासं करोति, एवमप्कायादिकानिति, ४ एवं पृथिवीकायिकसूत्राणि पञ्च, एवमेवाप्कायादयः प्रत्येकं पञ्च सूत्राणि लभन्त इति पञ्चविंशतिः सूत्राण्येतानीति । क्रिया
सूत्राण्यपि पञ्चविंशतिस्तत्र 'सिय तिकिरिए'त्ति यदा पृथिवीकायिकादिः पृथिवीकायिकादिरूपमुच्छ्रासं कुर्वन्नपि न तस्य | पीडामुत्पादयति स्वभावविशेषात्तदाऽसौ कायिक्यादित्रिक्रियः स्यात् , यदा तु तस्य पीडामुत्पादयति तदा पारितापनिकीक्रियाभावाच्चतुष्क्रियः, प्राणातिपातसद्भावे तु पञ्चक्रिय इति ॥ क्रियाधिकारादेवेदमाह-'वाउक्काइए 'मित्यादि, इह च वायुना वृक्षमूलस्य प्रचलनं प्रपातनं वा तदा संभवति यथा नदीभित्त्यादिषु पृथिव्या अनावृत्तं तत्स्यादिति । अथ कथं प्रपातेन त्रिक्रियत्वं परितापादेः सम्भवात् , उच्यते, अचेतनमूलापेक्षयेति ॥ नवमशते चतुस्त्रिंशत्तमः॥९॥३४॥ अस्मन्मनोव्योमतलप्रचारिणा, श्रीपार्श्वसूर्यस्य विसप्पितेजसा। दुधृष्यसंमोहतमोऽपसारणाद् ,विभक्तमेवं नवमं शतं मया १
॥ समाप्तं नवमं शतम् ॥९॥ ॥ इति श्रीमभयदेवसूरिविरचितवृत्तियुतं नवमं शतकं समाप्तं ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org