________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥४०७॥
त्कृष्टतोऽनन्तं कालमित्यर्थः, भावना चास्य पूर्वोक्तानुसारेणेति ॥ 'वाउक्काइए' त्यादि 'सवबंधंतरं जहनेणं अंतोमुहुतंति, कथं १, वायुरौदारिकशरीरी वैक्रियमापन्नः, तत्र च प्रथमसमये सर्वबन्धको भूत्वा मृतः पुनर्वायुरेव जातः, तस्य | चापर्यातकस्य वैक्रियशक्तिर्नाविर्भवतीत्यन्तर्मुहूर्त्तमात्रेणासौ पर्याप्तको भूत्वा वैक्रियशरीरमारभते, तत्र चासौ प्रथमसमये सर्वबन्धको जात इत्येवं सर्वबन्धान्तरमन्तर्मुहूर्त्तमिति, 'उक्कोसेणं पलिओवमस्स असंखेज्जइभागं ति, कथं १, वायुरौदारिकशरीरी वैक्रियं गतः, तत्प्रथमसमये च सर्वबन्धकस्ततो देशबन्धको भूत्वा मृतस्ततः परमोदारिकशरीरिषु वायुषु पल्योपमा सत्येय भागमतिवाह्यावश्यं वैक्रियं करोति, तत्र च प्रथमसमये सर्वबन्धकः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, 'एवं देसबंधंतरंपि'त्ति, अस्य भावना प्रागिवेति । 'तिरिक्खे'त्यादि, 'सङ्घबंधंतरं जहनेणं अंतोमुहत्तं'ति, कथं ?, पञ्चेन्द्रिय तिर्यग्योनिको वैक्रियं गतः तत्र च प्रथमसमये सर्वबन्धकस्ततः परं देशबन्धकोऽन्तर्मुहूर्त्तमात्रं तत औदारिकस्य सर्वबन्धको भूत्वा समयं देशबन्धको जातः पुनरपि श्रद्धेयमुत्पन्ना वैक्रियं करोमीति पुनर्वैक्रियं कुर्वतः प्रथमसमये सर्वबन्धः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, 'उक्कोसेणं पुचकोडिपुहुत्तं'ति, कथं ?, पूर्वकोव्यायुः पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धकस्ततो देशबन्धको भूत्वा कालान्तरे मृतस्तत्र पूर्वकोव्यायुः पचेन्द्रियतिर्यक्ष्वेवोत्पन्नः पूर्वजन्मना सह सप्ताष्टौ वा वारान्, ततः सप्तमेऽष्टमे वा भवे वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धं कृत्वा देशबन्धं करोतीति, एवं च सर्वबन्धयोरुत्कृष्टं यथोक्तमन्तरं भवतीति, 'एवं देसबंधंतरंपि त्ति, भावना | चास्य सर्वबन्धान्तरोक्तभावनानुसारेण कर्त्तव्येति ॥ वैक्रियशरीरबन्धान्तरमेव प्रकारान्तरेण चिन्तयन्नाह - 'जीवस्से'
Jain Education International
For Personal & Private Use Only
८ शतके उद्देशः ९ वैक्रियादि
बन्धः
सू ३४९
॥४०७ ॥
www.jainelibrary.org