SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ | कृतयः निगमाः - कारणिका वणिजो वा श्रेष्ठिनः -श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयो - नृपतिनिरूपितचतुरङ्गसैन्यनायकाः सार्थवाहाः प्रतीताः दूता - अन्येषां राजादेश निवेदकाः सन्धिपालाः - राज्यसन्धिरक्षकाः, एतेषां द्वन्द्वस्ततस्तैः, इह तृतीया बहुवचनलोपो द्रष्टव्यः 'सद्धिं'ति सार्द्धं सहेत्यर्थः, न केवलं तत्सहितत्वमेव अपि तु तैः समिति| समन्तात् परिवृतः - परिकरित इति, 'हारोत्थ्यसुकयरइयवच्छे' हारावस्तृतेन - हारावच्छादनेन सुष्ठु कृतरतिकं वक्षः - उरो यस्य स तथा, 'जहा चेव उववाइए'त्ति तत्र चैवमिदं सूत्रम् - 'पालंबलंबमाणपडसुकयउत्तरिज्जे ' इत्यादि तत्र प्रालम्बेन| दीर्घेण प्रलम्बमानेन - झुम्बमानेन पटेन सुष्ठु कृतमुत्तरीयं - उत्तरासङ्गो येन स तथा, 'महया भडचडगरवंदपरिक्खित्ते' त्ति | महाभटानां विस्तारवत्सङ्गेन परिकरित इत्यर्थः 'ओयाए 'त्ति 'उपयातः ' उपागतः 'अभेज्जकवयं'ति परप्रहरणाभेद्यावरणं 'वर पडिरूवगं'ति वज्रसदृशम् ' एगहत्थिणावि' त्ति एकेनापि गजेनेत्यर्थः ' पराजिणित्तए 'त्ति परानभिभवितुमित्यर्थः । | 'हयमहियपवरवीरघाइयविवडियचिंधद्वयपडागे' त्ति हताः - प्रहारदानतो मथिता - माननिर्मथनतः प्रवरवीराः - प्रधा | नभटा घातिताश्च येषां ते तथा, विपतिताश्चिह्नध्वजाः - चक्रादिचिह्नप्रधानध्वजाः पताकाश्च तदन्या येषां ते तथा, ततः कर्म्मधारयोऽतस्तान्, 'किच्छपाणगए 'त्ति कृच्छ्रगतप्राणान् -कष्टपतितप्राणानित्यर्थः 'दिसो दिसिं'ति दिशः सकाशादन्यस्यां दिशि अभिमत दिकू त्यागाद्दिगन्तराभिमुखेनेत्यर्थः, अथवा दिगेवापदिग् नाशनाभिप्रायेण यत्र प्रतिषेधने तद| गपदिकू तद्यथा भवत्येवं, 'पडिसेहित्य'त्ति प्रतिषेधितवान् युद्धान्निवर्त्तितवानित्यर्थः ॥ णायमेयं अरहया सुयमेयं अरहया विन्नायमेयं अरहया रहमुसले संगामे, रहमुसले णं भंते । संगामे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy