SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ | विशेषो यस्य स तथा सललितानि प्रलम्बानि अवचूलानि -यस्य स तथा चामरोत्करेण कृतमन्धकारं यत्र स तथा ततः कर्मधा| रयोऽतस्तं, 'चित्तपरिच्छोयपच्छयं' चित्तपरिच्छोको - लघुः प्रच्छदो - वस्त्रविशेषो यस्य स तथाऽतस्तं 'कणगघडियसुतगसुबद्धकच्छं' कनकघटितसूत्रकेण सुष्ठु बद्धा कक्षा - उरोबन्धनं यस्य स तथा तं 'बहुपहरणावरणाभरियजुज्झसज्झं' बहूनां प्रहरणाना ( मस्यादीना) मावरणानां च - स्फुरककण्टकादीनां भृतो युद्धसज्जश्च यः स तथाऽतस्तं 'सछत्तं सज्झयं सघंट' 'पंचामेलियपरिमंडियाभिरामं' पञ्चभिरापीडिकाभिः - चूडाभिः परिमण्डितोऽभिरामश्च - रम्यो यः | स तथाऽतस्तम् ' ओसारियजमलजुयलघंटं' अवसारितं - अवलम्बितं यमलयुगलं-द्वयं घण्टयोर्यत्र स तथाऽतस्तं 'विज्जुपिणद्धं व काल मेहं भास्वरप्रहरणाभरणादीनां विद्युत्कल्पना (त्वात् ) कालत्वाच्च गजस्य मेघसमतेति 'उप्पाश्यपचयं व | सक्ख' औत्पातिकपर्वतमिव साक्षादित्यर्थः 'मत्तं मेहमिव गुलुगुलंतं' 'मणपवणजइणवेगं' मनःपवनजयी वेगो यस्य स - तथाऽतस्तं, शेषं तु लिखितमेवास्ति वाचनान्तरे त्विदं साक्षाल्लिखितमेव दृश्यत इति, 'कयबलिकम्मे 'त्ति देवतानां | कृतबलिकर्म्मा 'कयकोउय मंगलपायच्छिते त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानीव दुःस्वप्नादिव्यपोहायावश्यं कर्त्तव्यत्वात् प्रायश्चित्तानि येन स तथा तत्र कौतुकानि - मषी पुण्ड्रादीनि मङ्गलानि - सिद्धार्थकादीनि 'सन्नद्धबद्धवम्मियकवए'त्ति सन्नद्धः संहननिकया तथा बद्धः कशाबन्धनतो वर्मितो वर्म्मतया कृतोऽङ्गे निवेशनात् कवचःकङ्कटो येन स तथा ततः कर्मधारयः, 'उप्पीलियसरा सणपट्टिएत्ति उत्पीडिता - गुणसारणेन कृतावपीडा शरा| सनपट्टिका - धनुर्दण्डो येन स तथा, उत्पीडिता वा - बाहौ बद्धा शरासनपट्टिका - बाहुपट्टिका येन स तथा, 'पिणद्धगेवेज Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy