SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ HASMC-SA- दयो यथोपशमश्रेणीतः प्रच्यवमानाः सकषायित्वं प्रतिपत्तार इति । 'देवेहिं छन्भंग'त्ति देवपदेषु त्रयोदशस्वपि षडू ४॥ भङ्गाः, तेषु क्रोधोदयवतामल्पत्वेनैकत्वे बहुत्वे च सप्रदेशाप्रदेशत्वयोः सम्भवादिति, मानकषायिमायाकषायिद्वितीयदण्डके |'नेरइयदेवेहिं छन्भंग'त्ति नारकाणां देवानां च मध्येऽल्पा एव मानमायोदयवन्तो भवन्तीति पूर्वोक्तन्यायात् षड् भङ्गा भवन्तीति, 'लोहकसाईहिं जीवेगेंदियवजो तियभंगोत्ति एतस्य क्रोधसूत्रवद्भावना, 'नेरइएहि 8 छन्भंग'त्ति नारकाणां लोभोदयवतामल्पत्वात्पूर्वोक्ताः षड् भंगा भवन्तीति, आह च-“कोहे 'माणे माया बोद्धबा सुरगणेहिं छन्भंगा । माणे माया लोभे नेरइएहिंपि छन्भंगा ॥१॥" [१ क्रोधे माने मायायां बोद्धव्याः सुरगणेषु षड् भङ्गाः । माने मायायां लोभे नैरयिकेष्वपि षडू भङ्गाः ॥ १ ॥ ] देवा लोभप्रचुरा नारकाः क्रोधप्रचुरा इति, अकषायिद्वितीयदण्डके जीवमनुष्यसिद्धपदेषु भङ्गात्रयमन्येषामसम्भवात्, एतदेवाह-'अकसाई' इत्यादि । 'ओहियनाणे आभिनिबोहियणाणे सुयनाणे जीवाईओ तियभंगो'त्ति, औधिकज्ञान-मत्यादिभिरविशेषितं तत्र मतिश्रुतज्ञानयोश्च बहुत्वदण्डके जीवादिपदेषु त्रयो भङ्गाः पूर्वोक्ता भवन्ति, तत्रौधिकज्ञानमतिश्रुतज्ञानिनां| सदाऽवस्थितत्वेन सप्रदेशानां भावात्, सप्रदेशा इत्येकः, तथा मिथ्याज्ञानान्मत्यादिज्ञानमात्रं मत्यज्ञानान्मतिज्ञानं | श्रुताज्ञानाच्च श्रुतज्ञानं प्रतिपद्यमानानामेकादीनां लाभात्सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्च अप्रदेशाश्चेति द्वावित्येवं । त्रयमिति । 'विगलेंदिएहिं छन्भंग'त्ति द्वित्रिचतुरिन्द्रियेषु सासादनसम्यक्त्वसम्भवेनाभिनिबोधिकादिज्ञानिनामेकादीनां सम्भवात्त एव षड् भङ्गाः, इह च यथायोगं पृथिव्यादयः सिद्धाश्च न वाच्याः, असम्भवादिति, एवमवध्यादिष्वपि भङ्ग AAॐACA Jain Education Intemanona For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy