SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया | ५ कायोत्सर्गाध्ययनं कायनिक्षेपः ॥७६५|| ACANCE स्पन्दनादिलक्षणा वार्यते-निषिध्यते, पञ्चमे शल्ये उद्धृते व्रणोऽस्यास्तीति व्रणी तस्य व्रणिनःरौद्रतरत्वाच्छल्यस्येति गाथार्थः॥ । 'रोहेइ वणं छठे' इति रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमितभोजी हितं-पथ्यं मितं-स्तोकं अभुञ्जन्वेति, यावच्छल्येन दूषितं 'तत्तियमित्तंति तावन्मानं छिद्यते, सप्तमे शल्य उद्धृते किं ?-पूतिमांसादीति गाथार्थः॥ 'तहविय अठायेति तथापि च 'अट्ठायमाणे त्ति अतिष्ठति सति विसर्पतीत्यर्थः, गोनसभक्षितादी रष्क(रुम्फ)कैवापि क्रियते, तदङ्गछेदः सहास्थिकः, शेषरक्षार्थमिति गाथार्थः ॥ एवं तावद् द्रव्यव्रणस्तचिकित्सा च प्रतिपादिता, अधुना भावव्रणः प्रतिपाद्यते__ 'मुलूत्तरगुणरूवस्स' गाहा,इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते, मूलगुणाः-प्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्ध्यादयस्तु उत्तरगुणाः, एते एव रूपं यस्य स मूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः तस्य अपराधाः-गोचरादिगोचराः त एव शल्यानि तेभ्यः प्रभवः-सम्भवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्य इति गाथार्थः ॥ साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्रप्रायश्चित्तभैषजेन चिकित्सा प्रतिपाद्यते, तत्र__'भिक्खायरियाई' भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद्विकटनयैव-आलोचनयैवेत्यर्थः, आदिशब्दाद् विचारभूम्यादिगमनजो गृह्यते, इह चातिचार एव व्रणः २, एवं सर्वत्र योज्यं, 'बितिउत्ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादौहा असमितोऽस्मीति सहसा अगुप्तो वा मिथ्यादुष्कृतमिति विचिकित्सेत्ययं गाथार्थः॥'शब्दादिषु इष्टानिष्टेषु राग द्वेषं वा मनसा(मनाक) गतः अत्र 'तइओ' तृतीयो व्रणः मिश्रभैषज्यचिकित्स्यः, आलोचनाप्रतिक्रमणशोध्य इत्यर्थः, ज्ञात्वा अनेषणीय भक्तादि विगिश्चना चतुर्थ इति गाथार्थः ॥ 'उस्सग्गेणवि सुज्झइ' कायोत्सर्गेणापि शुद्ध्यति अतिचारः कश्चित् , कश्चित् ॥७६५॥ RGAOR Jan Educato For Personal & Private Use Only ww.jainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy