________________
आवश्यकहारिभद्वीया
॥ ८१७॥
Jain Education In
सस्वमसत्वं सदस्य अवाच्यत्वं सदवाच्यत्वं असदवाच्यत्वं सदसदवाच्यत्वमिति चैकैकत्व-जीवादेः सस सस विकल्पाः, एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-सत्वमसत्त्वं सदसत्त्वं अवाच्यत्वं चेति; त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति, को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किं ?, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति को जानातीति ?, एतन्न कश्चिदपीत्यभिप्रायः । ' वेणइयाणं च बत्तीस ति वैनयिकानां च द्वात्रिंशद् भेदाः, विनयेन चरन्ति विनयोचा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः - सुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां प्रत्येकं कायेन वचसा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टसु स्थानकेषु, एकत्र मिलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि न चैतत् स्वमनीषिकाव्याख्यानं, यस्मादन्यैरप्युक्तं“आस्तिक मतमात्माद्या नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावेश्वरात्मकृत्ताः (तकाः) स्वपर संस्थाः ॥ १ ॥ कालयइच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति भावाः स्वपरसंस्थाः ॥ २ ॥ अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिं सदसद्वैतावाच्यां च को वेत्ति ? ॥ ३ ॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ॥ ४ ॥" इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, एतेषां प्रशंसा न कार्या- पुण्यभाज एते सुलब्धमेभिर्यद् जन्मेत्यादिलक्षणा, एतेषां मिथ्यादृष्टित्वादिति । अत्र चोदाहरणं- पाडलिपुत्ते चाणक्को,
१ पाटलीपुत्रे चाणक्य:,
For Personal & Private Use Only
प्रत्याख्य नाध्य०
श्रावकत्र ताधि०
॥ ८१७॥
anelibrary.org