________________
अण्णायया अलोहे य, तितिक्खा अजवे सुई । सम्मदिट्ठी सैमाही य, आयारे विणओवैए ॥ १२७५ ॥ "धिई मई य"संवेगे, पंणिही सुविहि "संवेरे । अत्तदोसोवसंहारो, सव्वकामविरत्तिया ॥१२७६ ॥ पच्चखाणों विउस्सग्गे, अप्पमाए लालवे । झाणसंवरजोगे य, उद्दए मारणंतिएं ॥१२७७॥ संगाणं च परिण्णा, पायच्छित्तकरणे इय । आराहणा य मैरणंते, बत्तीसं जोगसंगहा ॥१२७८॥ ___ आसां व्याख्या-'आलोयण'त्ति प्रशस्तमोक्षसाधकयोगसङ्ग्रहाय शिष्येणाऽऽचार्याय सम्यगालोचना दातव्या१, निरवलावे'त्ति आचार्योऽपि प्रशस्तमोक्षसाधकयोगसङ्ग्रहायैव दत्तायामालोचनायां निरपलापः स्यात् , नान्यस्मै कथयेदित्यर्थः, एकारान्तश्च प्राकृते प्रथमान्तो भवतीत्यसकृदावेदितं यथा-'कयरे आगच्छइ दित्तरूवे'इत्यादि २, आवतीसु दढधम्मत'त्ति तथा योगसङ्ग्रहायैव सर्वेण साधुनाऽऽपत्सु द्रव्यादिभेदासु दृढधर्मता कार्या,आपत्सु सुतरां दृढधर्मेण भवितव्यमित्यर्थः,३, 'अणिस्सिओवहाणे'त्ति प्रशस्तयोगसङ्ग्रहायैवानिधितोपधानं च कार्यम्, अथवाऽनिश्रित उपधाने च यत्तः कार्यः, उपदधातीत्युपधान-तपः न निश्रितमनिश्रितम्-ऐहिकामुष्मिकापेक्षाविकलमित्यर्थः, अनिश्रितं च तदुपधानं चेति समासः४, 'सिक्ख'त्ति प्रशस्तयोगसङ्ग्रहायैव शिक्षाऽऽसेवितव्या, सा च द्विप्रकारा भवति-ग्रहणशिक्षाऽऽसेवनाशिक्षा च ५, 'निष्पडिकम्मय'त्ति प्रशस्तयोगसङ्ग्रहायव निष्प्रतिकर्मशरीरता सेवनीया, न पुनर्नागदत्तवदन्यथा वर्तितव्यमिति ६ प्रथमगाथासमासार्थः॥ 'अन्नायय'त्ति तपस्यज्ञातता कार्या, यथाऽन्यो न जानाति तथा तपः कार्य, प्रशस्तयोगाः सङ्ग्रहीता भवन्तीत्यतत् सर्वत्र योज्यं ७, अलोहे'त्ति अलोभश्च कार्यः, अथवाऽलोभे यत्नः कार्यः ८, 'तितिक्ख'त्ति तितिक्षा कार्या, परीषहादि