________________
आवश्यक
| हारिभद्री
यवृत्तिः विभागः१
॥२७८॥
धमित्याह-कर्ता च कारणं, तस्य कार्ये स्वातन्त्र्येणोपयोगात् , तमन्तरेण विवक्षितकार्यानुत्पत्तेः अभीष्टकारणवत्, ततश्च घटोत्पत्तौ कुलालः कारणं, तथा करणं च-मृत्पिण्डादि करणं, तस्य साधकतमत्वात् , तथा कर्म च कारणं, क्रियतेनिर्वर्त्यते यत्तत्कर्म-कार्यम् ,आह-तत्कथमलब्धात्मलाभंतदा कारणमिति?, अत्रोच्यते, कार्यनिर्वर्तनक्रियाविषयत्वात्तस्योपचारात्कारणता, उक्तं च-"निर्वर्त्य वा विकार्य वा, प्राप्यं वा यक्रियाफलम् । तत् दृष्टादृष्टसंस्कार, कर्म कर्तुर्यदीप्सितम् ॥१॥" इत्यादि, मुख्यवृत्त्या वा सौकर्यगुणेन कर्म कारणं, तथा सम्प्रदानं च घटस्य कारणं, तस्य कर्मणाऽभिप्रेतत्वात् , तमन्तरेण तस्याभावात् , सम्यक् सत्कृत्य वा प्रयत्नेन दानं सम्प्रदानम्, अत एव च रजकस्य वस्त्रं ददातीति न सम्प्रदाने चतुर्थी, किं तु ब्राह्मणाय घटं ददातीति, तथाऽपादानं कारणं, विवक्षितपदार्थापायेऽपि तस्य ध्रुवत्वेन कार्योपकारकत्वाद् , 'दो अवखण्डने' दानं खण्डनम् अपसृत्य मर्यादया दानमपादानं, पिण्डापायोऽपि मृदो ध्रुवत्वादपादानतेति, सा च घटस्य कारणं, तामन्तरेण तस्यानुत्पत्तेः, तथा सन्निधानं च कारणं, तस्याधारतया कार्योपकारकत्वात् , सन्निधीयते यत्र कार्य तत्सन्निधानम्-अधिकरणं, तच्च घटस्य चक्र, तस्यापि भूः, तस्या अप्याकाशम् , आकाशस्य त्वधिकरणं नास्ति, स्वरूपप्रतिष्ठितत्वात् , घटस्य चेदं कारणम् , एतदभावे घटानुत्पत्तेरिति गाथार्थः॥ उक्तं द्रव्यकारणम्, इदानीं भावकारणप्रतिपादनायाहदुविहं च होइ भावे अपसत्थ पसत्थगं च अपसत्थं । संसारस्सेगविहं दुविहं तिविहं च नायव्वं ॥ ७३९ ॥ व्याख्या-भवतीति भावः, स चौदयिकादिः, स एव कारणं संसारापवर्गयोरिति भावकारणं, तत्र 'द्विविधं च द्विप्र
||२७८॥
dain Educati
o
nal
For Personal & Private Use Only
TDainelibrary.org