________________
संशयात्, न च धर्मिग्रहणे धर्माग्रहणं युज्यते, इतश्च देहादन्यच्चैतन्यं, चलनादिचेष्टानिमित्तत्वात् , इह यद्यस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टं, यथा मारुतः पादपादिति, ततश्च चैतन्यस्याऽऽत्मधर्मत्वात्तस्य चानादिमत्कर्मसन्ततिसमालिङ्गितत्वात् उत्पादव्ययध्रौव्ययुक्तत्वात्कर्मपरिणामापेक्षमनुष्यादिपर्यायनिवृत्त्या देवादिपर्यायान्तरावाप्तिरस्याविरुद्धति, नित्यानित्यैकान्तपक्षोक्तदोषानुपपत्तिश्चात्रानभ्युपगमात् इति।। छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ॥ ६३७॥ व्याख्या-पूर्ववत् । दशमो गणधरः समाप्तः ॥ ते पव्वइए सो पभासो आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जवासामि ॥ ६३८॥ व्याख्या-पूर्ववन्नवरं प्रभासः आगच्छतीति । आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ ६३९ ॥
सपातनिका व्याख्या पूर्ववदेव । किं मण्णे निव्वाणं अत्थि णस्थित्ति संसओ तुझं । वेयपयाण य अत्थं ण याणसि तेसिमो अत्थो ॥६४०॥3
व्याख्या-किं निर्वाणमस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो | वर्त्तते, शेषं पूर्ववत् । तानि चामूनि वेदपदानि 'जरामर्थ्य वा एतत्सर्व यदग्निहोत्रं' तथा 'दे ब्रह्मणी वेदितव्ये, परमपरं | च, तत्र परं सत्यं ज्ञानमनन्तं ब्रह्मेति, एतेषां चायमर्थस्तव मतो प्रतिभासते-अग्निहोत्रक्रिया भूतवधोपकारभूतत्वात
sain Education LIO
For Personal & Private Use Only
anww.jainelibrary.org