________________
आवश्यकहारिभ
द्रीया
॥४७७॥
RRRRRRRRRR
तेषामेव देवानां देश एको निकायः असुराः, ते चसर्वएवासितवर्णा इति गाथार्थः ॥१८६॥ सर्वधत्तसर्वप्रतिपादनायाऽऽह- सामायिकसा हवइ सव्वधत्ता दुपडोआरा जिआ य अजिआ य । व्वे सव्वघडाई सव्वद्वत्ता पुणो कसिण॥१८७॥(भा०)
निक्षेपनि
वि०१ | व्याख्या-सा भवति 'सबधत्ता' इत्यत्र सर्व-जीवाजीवाख्यं वस्तु धत्तं-निहितमस्यां विवक्षायामिति सर्वधत्ता, ननु 'दधातेही ( पा०७-४-४२) ति हिशब्दादेशाद्धितमिति भवितव्यं कथं धत्तमिति ?, उच्यते, प्राकृते देशीपदस्याविरुद्धत्वान्न दोषः, अथवा धत्त इति डिस्थवदव्युत्पन्न एव यदृच्छाशब्दः, अथवा सर्व दधातीति सर्वधं-निरवशेषवचनं सर्वधमात्-आगृहीतं यस्यां विवक्षायां सा सर्वधात्ता, एवमपि निष्ठान्तस्य पूर्वनिपातः, 'जातिकालसुखादिभ्यः परवचन(पा०६-२-१७० ) मिति परनिपात एव, अथवा सर्वधेन आत्ता सर्वधात्ता तया यत् सर्व तत् सर्वधात्तासर्वमिति, सा च भवति सर्वधात्ता 'दुपडोयार'त्ति द्विप्रकारा-जीवाश्चाजीवाश्च, यस्मात् यत् किञ्चनेह लोकेऽस्ति तत् सर्व जीवाश्चाजीवाश्च, न ह्येतद्व्यतिरिक्तमन्यदस्ति, अत्राऽऽह-द्रव्यसर्वस्य सर्वधत्तासर्वस्य च को विशेष इति?, अयमभिप्रायः-द्रव्यसर्वमपि विवक्षयाऽशेषद्रव्यविषयमेव, अत्रोच्यते, 'दवे सबघडाई' इह द्रव्यसर्वे सर्वे घटादयो गृह्यन्ते, आदिशब्दादगुल्यादिपरिग्रहः, सर्वधत्ता पुनः कृत्स्नं वस्तु व्याप्य व्यवस्थितेति विशेष इत्ययं गाथार्थः॥१८७ ॥ अधुना भावसव भावे सब्वोदइओदयलक्खणओ जहेव तह सेसा । इत्थ उ खओवसमिए अहिगारोऽसेससव्वे ॥१८८॥(भा०)। ॥४७७|| | व्याख्या-'भाव' इति द्वारपरामर्शः, सर्वो द्विप्रकारोऽपि शुभाशुभभेदेन औदयिका-उदयलक्षणः कर्मोदयनिष्पन्न इत्यर्थः यथैवायमुक्तस्तथा शेषा अपि स्वलक्षणतो वाच्या इति वाक्यशेषः, तत्र मोहनीयकर्मोपशमस्वभावतः शुभः सर्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org