________________
व्याधिवियुक्तता चैवेति । एतावद्गणसामग्र्यविकल एव योधो जयश्रियमाप्नोतीति दृष्टान्तः, दार्शन्तिकयोजना त्वियंजीवो जोहो जाणं वयाणि आवरणमुत्तमा खंती । झाणं पहरणमिट्ठ गीयत्थत्तं च कोसलं ॥ १॥ दवाइजहोवाया-181 गुरूवपडिवत्तिवत्तिया णीति । दक्खत्तं किरियाणं जं करणमहीणकालंमि ॥२॥ करणं सहणं च तवोवसग्गदुग्गावती' ववसाओ। एतेहिं सुणिरोगो कम्मरि जिणति सबेहिं ॥३॥ विजित्य च समग्रसामायिकश्रियमासादयतीति गाथार्थः ॥ ८४३ ॥ अथवाऽनेन प्रकारेणाऽऽसाद्यत इति| दिढे सुएऽणुभूए कम्माण खए कए उवसमे अ। मणवयणकायजोगे अ पसत्थे लब्भए बोही॥ ८४४ ॥
व्याख्या दृष्टे भगवतः प्रतिमादौ सामायिकमवाप्यते, यथा श्रेयांसेन भगवदर्शनादवाप्तमिति, कथानकं चाधः कथितमेव, श्रुते चावाप्यते यथाऽऽनन्दकामदेवाभ्यामवाप्तमिति, अत्र कथानकमुपरितनाङ्गादवसेयम् , अनुभूते क्रियाकलापे सत्यवाप्यते, यथा वल्कलचीरिणा पित्रुपकरणं प्रत्युपेक्षमाणेनेति, कथानकं कथिकातोऽवसेयं, कर्मणां क्षये कृते सति प्राप्यते, यथा चण्डकौशिकेन प्राप्तम् , उपशमे च सत्यवाप्यते यथाऽङ्गऋषिणा, मनोवाक्काययोगे च प्रशस्ते लभ्यते
बोधिः, सामायिकमनर्थान्तरमिति गाथार्थः ॥ अथवाऽनुकम्पादिभिरवाप्यते सामायिकमित्याहहै| अणुकंपऽकामणिजर बालतवे दाणविणयविन्भंगे । संयोगविप्पओगे वसणूसवइढि सक्कारे ॥ ८४५ ॥
१जीवो योधो यानं व्रतानि आवरणमुत्तमा क्षान्तिः । ध्यानं प्रहरणमिष्टं गीतार्थत्वं च कौशल्यम् ॥१॥ द्रव्यादियथोपायानुरूपप्रतिपत्तिवर्तिता नीतिः । दक्षत्वं क्रियाणां यत्करणमबीनकाले ॥२॥ करणं सहनं च तपसः उपसर्गदुर्गापत्ती व्यवसायः । एतैः सुनीरोगः कर्मरिपुं जयति सर्वैः॥३॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org