SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ चैवे" त्यादिनाऽऽदिमङ्गलमाह । तथा "वंदण चिति कितिकम्म" इत्यादिनामध्यमङ्गलं, वन्दनस्य विनयरूपत्वात् , तस्य चाभ्यन्तरतपोभेदत्वात् , तपोभेदस्य च मङ्गलत्वात् । तथा “पच्चक्खाणं" इत्यादिना चावसानमङ्गलं, प्रत्याख्यानस्याअद्यतपोभेदत्वादेव मङ्गलत्वमिति ॥ तत्रैतत्स्यात्, इदं मङ्गलत्रयं शास्त्राद्भिन्नमभिन्नं वा ?, यदि भिन्नमतः शास्त्रममङ्गलं, तद्भेदान्य॑थानुपपत्तेः, अमङ्गलस्य च सतोऽन्यमङ्गलशतेनापि मङ्गलीकर्तुमशक्यत्वात् तन्मङ्गलोपन्यासवैयर्थ्य, तदुपादानेऽनिष्ठा वा, यथा प्रागमङ्गलस्य सतःशास्त्रस्य मङ्गलमुक्तम् , एवं मङ्गलान्तरमप्यभिधातव्यम् , आद्यमङ्गलाभिधानेऽपि तदमङ्गलत्वात् , इत्थं पुनरप्यभिधातव्यमित्यतोऽनिष्ठेति । अथाभिन्नम्, एवं सति शास्त्रस्यैव मङ्गलत्वात् अन्यमङ्गलोपादानानर्थक्यमेव, अथ मङ्गलभूतस्याप्यन्यन्मङ्गलमुपादीयत इति, एवं सति तस्याप्यन्यदुपादेयमित्यनवस्थानुषङ्ग एव, अथानवस्था नेष्यत इति मङ्गलाभावप्रसङ्गः, कथम् ? यथा मङ्गलात्मकस्यापि सतः शास्त्रस्य अन्यमङ्गलनिरपेक्षस्यामङ्गलता, एवं मङ्गलस्याप्यन्यमङ्गलशून्यस्य, इत्यतो मङ्गलाभांव इति । | अत्रोच्यते-आद्यपक्षोक्तदोषाभावस्तावदनभ्युपगमादेव, तदभ्युपगमेऽपिच मङ्गलस्य लवणप्रदीपादिवत् स्वपरानुग्रहकारित्वादुक्तदोषाांव इति । चरमपक्षेऽपि न मङ्गलोपादानानर्थक्यं, शिष्यमतिमङ्गलपरिग्रहाय शास्त्रस्यैव मङ्गलवा१ प्रयोजनाभावरूपस्य. २ गाथा १ आदिशब्देनाद्यभागावसानपर्यन्तस्य ग्रहः ३ जं नेरइओ इत्यादिना ज्ञानस्य सष्टं निर्जरार्थत्वाम्मलता ४ गाथा वन्दनकनि. ५ द्वितीयभेदः ६ धम्मो मंगलमुविठं अहिंसा संजमो तवो इति वचनात् ७ बाझेति ८ मङ्गलभेदवत्वस्य. ९ न पर्यवसानम्. १० शास्त्रस्य ११ मजलरू. पस्याप्यन्यन्मङ्गलकरणे. १२ मूलक्षयकरीति ( अन्यद्वितीयमङ्गलकरणाभावात्) १३ कृतस्य. १४ द्वितीयेति १५ द्वितीयकरणाभावात्. १५ शाखे संपन्नः. १. भेदेति १८ अनिष्ठालक्षणेति. १९ अभेदपक्षे. * मङ्गलभूतस्यापि १-स्विं 1-४-५ dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy