SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ * आवश्यक 2% हारिभद्री यवृत्ति विभागः१ ॥२४९॥ भावा द्युगपदुभयस्येति ?, किं चातः, न तावत्पूर्वमात्मप्रसूतियुज्यते, निर्हेतुकत्वाद्, व्योमकुसुमवत् , नापि कर्मणः प्राक् प्रसूतिः, कर्तरभावात् , न चाकर्तृकं कर्म भवति, युगपत्प्रसूतिरप्यकारणत्वादेव न युज्यते, न चानादिमत्ययात्मनि बन्धो युज्यते, बन्धकारणाभावाद् गगनस्येव, इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा मुक्तस्यापि बन्धप्रसङ्गः, तथा च सति नित्यमोक्षत्वान्मोक्षानुष्ठानवैयर्थ्यम् , अथ द्वितीयः पक्षः, तथापि नात्मकर्मवियोगो भवेद् , अनादित्वाद्, आत्माकाशसंयोगवद्, इत्थं मोक्षो न घटते, तथा देहकर्मसन्तानानादित्वाच्च कुतो मोक्ष इति ते मतिः। तत्र वेदपदानामयमर्थः-स एष-मुक्तात्मा विगताः छानस्थिकज्ञानादयो गुणा यस्य स विगुणः विभुः-विज्ञानात्मना सर्वगतः न बध्यते-मिथ्यादर्शनादिबन्धकारणाभावात् संसरति वा-मनुजादिभवेषु कर्मवीजाभावात् , नेत्यनुवर्त्तते, न मुच्यते, मुक्तत्वात् , मोचयति वा तदा खलूपदेशदानविकलत्वात् , नेत्यनुवर्तते, तथा संसारिकसुखनिवृत्त्यर्थमाह-नवा एष-मुक्तात्मा बाह्यं-सकन्दनादिजनितम् आभ्यन्तरम्-आभिमानिक वेद-अनुभवात्मना विजानातीत्येवमेतानि मुक्तात्मस्वरूपाभिधायकान्येव, शेषाणितु सुगमानि, तथा जीवकर्मणोरप्यनादिमतोरनादिमानव संयोगो, धर्माधर्मास्तिकायाकाशसंयोगवदिति, न चानादित्वात्संयोगस्य वियोगाभावः, यतः काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटते, एवं जीवकर्मणोरपि ज्ञानदर्शनचारित्रयोगोपायाद्वियोग इति, न चानादित्वात्सर्वस्य कर्मणो जीवकृतत्वानुपपत्तिः, यतो वर्तमानतया मिथ्यादर्शनादिसव्यपेक्षात्मनोपात्तं कृतमित्युच्यते, सर्वं च वर्तमानत्वेन मिथ्यादर्शनादिसव्यपेक्षात्मोपात्तं कर्म अनादि च, कालवत्, यथा हि यावानतीतः कालस्तेनाशेषेण वर्तमानत्वमनुभूतमथ चासावनादिरिति, न चामृतस्य ॥२४९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy