________________
आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तण य सव्वण्णू सव्वदरिसीणं ॥६०३॥
व्याख्या-पूर्ववत्, नामगोत्राभ्यां संलप्तश्चिन्तयामास-नामापि मे वेत्ति, अथवा प्रसिद्धोऽहं, को मां न वेत्ति ?, यदि M मे हृद्गत संशयं ज्ञास्यति अपनेष्यति वा, तदा सर्वज्ञाशङ्का स्यात् इति ॥ अत्रान्तरे भगवताऽभिहितःकिं मण्णि अस्थि कम्मं उदाहु णत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं ण जाणसी तेसिमोअत्थो ॥६०४॥
व्याख्या-किं मन्यसे अस्ति कर्म उत नास्तीति ?, नन्वयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदनिबन्धनो वर्त्तते, वेदपदानां चार्थ न जानासि, यथा च न जानासि तथा वक्ष्यामः, तेषामयमर्थो-वक्ष्यमाणलक्षण इत्यक्षरार्थः॥ तानि च अमूनि वेदपदानि-"पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नैजति यद् दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यत" इत्यादि, तथा 'पुण्यः पुण्येन' इत्यादि, तेषां चायमर्थः ते मतौ विपरिवर्तते-पुरुषः-आत्मा, एवशब्दोऽवधारणे, स च कर्मप्रधानादिव्यवच्छेदार्थः, 'इदं' सर्व प्रत्यक्षवर्तमान चेतनाचेतनं, ग्निमिति वाक्यालङ्कारे, 'यद् भूतं' यद् अतीतं यच्च 'भाव्यं भविष्यं, मुक्तिसंसारावपि स एव इत्यर्थः, 'उतामृतत्वस्येशान' इति, उतशब्दोऽप्यर्थे, अपिशब्दश्च समुच्चये, 'अमृतत्वस्य' अमरणभावस्य-मोक्षस्य ईशानः-प्रभुश्चेत्यर्थः 'यत्' इति यच्चेति चशब्दलोपात्, 'अन्नेन' आहारेण 'अतिरोहति' अतिशयेन वृद्धिमुपैति, 'यद् एजति यत् चलति-पश्वादि, 'यत् न एजति' यन्न चलति-पर्वतादि, 'यहूरे' मेर्वादि, 'यद् उ अन्तिके' उशब्दोऽवधारणे, 'अन्तिके' समीपे यत्, तत्पुरुष एव इत्यर्थः, 'यदू अन्तर' मध्ये 'अस्य चेतनाचेतनस्य सर्वस्य, यदेव सर्वस्यास्य बाह्यतः, तत्सर्व
dain Education International
For Personal & Private Use Only
www.jainelibrary.org