SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ उक्तसम्बन्धगाथात्रयगमनिका-ऋषभे तीर्थकरे भरतश्चक्रवर्ती, तथा अजिते तीर्थकरे सगरश्चक्रवर्ती भविष्यति एवं तीर्थकरोक्तानुवादः, सर्वत्र भविष्यत्कालानुरूपः क्रियाध्याहारः कार्यः, त्रिकालसूत्रप्रदर्शनार्थो वा भूतेनापि न दृष्यति. तथा चावोचत्-'मघवा सणंकुमारो सणंकुमारं गया कप्पं' इत्यादि । एवं सर्वत्र योज्यमिति । मघवान् सनत्कुमारश्च एतच्चक्रवर्तिद्वयं धर्मस्य शान्तेश्च अनयोरन्तरं तस्मिन् जिनान्तरे चक्रवर्तिद्वयं भविष्यत्यभवद्वेति गाथार्थः॥ द्वितीयगाथागमनिका-शान्तिः कुन्थुश्चारः, एते त्रयोऽप्यशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तश्चैव चक्रवर्तिनश्च, तथा अरमल्यन्तरे तु भवति सुभूमश्च कौरव्यः,तुशब्दोऽन्तरविशेषणे,नान्तरमात्रे, किन्तु पुरुषपुण्डरीकदत्तवासुदेवद्वयमध्यइति गाथार्थः॥ तृतीयगाथागमनिका-मुनिसुव्रते तीर्थकरे नमौ च भवतः द्वौ, कौ द्वौ ?, पद्मनाभहरिषेणौ 'नमिनेमिसु जयनामो अरिठ्ठपासंतरे बंभो' त्ति नमिश्च नेमी च नमिनेमिना, अन्तरग्रहणमभिसंबध्यते, ततश्च नमिनेम्यन्तरे जयनामाऽभवत्, अरिष्टग्रहणाद् अरिष्टनेमिः, पार्थेति पार्श्वस्वामी, अनयोरन्तरे ब्रह्मदत्तो भविष्यत्यभवद्वेति गाथार्थः ॥४१६-४१७-४१८ ॥ इदानी वासुदेवो यो यत्तीर्थकरकालेऽन्तरे वा खल्वासीत् असौ प्रतिपाद्यते पंचरहते वंदंति केसवा पंच आणुपुव्वीए । सिज्जंस तिविट्ठाई धम्म पुरिससीहपेरंता ॥४१९॥ अरमल्लिअंतरे दुण्णि केसवा पुरिसपुंडरिअदत्ता । मुणिसुब्बयनमिअंतरि नारायण कण्हु नेमिंमि ॥४२०॥ | गमनिका-पञ्च अर्हतः वन्दन्ते केशवाः, एतदुक्तं भवति–पञ्च केशवा अर्हतो वन्दन्ते, वन्दन्त इत्येतेषां सम्य-13 ६ क्त्वख्यापनार्थमिति । कियन्तोऽर्हन्तः ? किमेकः द्वौ त्रयो वा?, नेत्याह-'पंच' पञ्चेति पञ्चैव, किं यथाकथञ्चित् ? Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy