SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ C हारिभद्रीयवृत्तिः विभागः१ आवश्यक- विषयो विधिर्वाच्यः, एवमन्यत्रापि क्रिया योज्या, गणितं-संख्यानं, तच्च भगवता सुन्दर्या वामकरणोपदिष्टमिति, 'च' समुच्चये, रूपं-काष्ठकर्मादि, तच्च भगवता भरतस्य कथितमिति, 'चः' पूर्ववत्, 'लक्षणं' पुरुषलक्षणादि, तच्च भगवतव ॥१२९॥ |बाहुबलिनः कथितमिति, 'मानमिति' मानोन्मानावमानगणिमप्रतिमानलक्षणं, 'पोत' इति बोहित्थः प्रोतं वा अनयो निपोतयोविधिर्वाच्यः, तत्र मानं द्विधा-धान्यमानं रसमानं च, तत्र धान्यमानमुक्तम्-'दो असतीओ पसती' द इत्यादि, रसमानं तु 'चउसठ्ठीया बत्तीसिआ' एवमादि १, उन्मानं-येनोन्मीयते यद्वोन्मीयते तद्यथा-कर्ष इत्यादि २, अवमानं येनावमीयते यद्वाऽवमीयते तद्यथा-हस्तेन दण्डेन वा हस्तो वेत्यादि ३, गणिमं-यद्गण्यते एकादिसंख्ययेति ४, प्रतिमान-गुञ्जादि ५, एतत्सर्वं तदा प्रवृत्तमिति, पोता अपि तदैव प्रवृत्ताः, अथवा प्रकर्षेण उतनं प्रोतः-मुक्ताफलादीनां प्रोतनं तदैव प्रवृत्तमिति प्रथमद्वारगाथासमासार्थः । द्वितीयगाथागमनिका-'ववहारे' त्ति व्यवहारविषयो विधिर्वाच्यः, राजकुलकरणभाषाप्रदानादिलक्षणो व्यवहारः, स च तदा प्रवृत्तो, लोकानां प्रायः | स्वस्वभावापगमात् , 'णीतित्ति' नीती विधिर्वक्तव्यः, नीतिः-हक्कारादिलक्षणा सामाधुपायलक्षणा वा तदैव जातेति, 'जुद्धे यत्ति' युद्धविषयो विधिर्वाच्यः, तत्र युद्धं-बाहयुद्धादिकं लावकादीनां वा तदैवेति, 'ईसत्थे यत्ति' प्राकृतशैल्या सुकारलोपात् इषुशास्त्रं-धनुर्वेदः तद्विषयश्च विधिर्वाच्य इति, तदपि तदैव जातं राजधर्मे सति, अथवा एकारान्ताः सर्वत्र प्रथमान्ता एव द्रष्टव्याः, व्यवहार इति-व्यवहारस्तदा जातः, एवं सर्वत्र योज्यं, यथा-'कयरे आगच्छति दित्त * प्रतिपादना०. + स्वभावोपग०. |॥१२९॥ OLORSE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy