________________
AAAAAAACROGRA
प्रतिपादयति अनुगमद्वारावसरे तदशेष निर्दिष्टनिक्षिप्तप्रपञ्चव्याख्यानार्थमिति । आह-उपक्रमः प्रायः शास्त्रसमुत्थानार्थ उक्तः, अयमप्युपोद्घातः शास्त्रसमुद्घातप्रयोजन एवेति कोऽनयोर्भेदः, उच्यते, उपक्रमो युद्देशमात्रनियतः, तदुद्दिष्टवस्तुप्रबोधनफलस्तु प्रायेणोपोद्घातः, अर्थानुगमत्वात् इत्यलं विस्तरेण, प्रकृतमुच्यते ॥१४१॥ तत्रोद्देशद्वारावयवार्थप्रतिपादनायेदमाह
नाम ठवणा दविए वेत्ते काले समास उद्देसे । उद्देसुद्देसंमि अ भावंमि अ होइ अट्टमओ॥१४२॥ व्याख्या-तत्र नामोद्देशः यस्य जीवादेरुद्देश इति नाम क्रियते, नाम्नो वा उद्देशः नामोद्देशः, स्थापनोद्देशः-स्थाप-12 नाभिधानं उद्देशन्यासो वा, 'द्रव्ये' इति द्रव्यविषय उद्देशो द्रव्योद्देशः, स च आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्येण द्रव्ये वा उद्देशो द्रव्योद्देशः, द्रव्यस्य-द्रव्यमिदमिति, द्रव्येण-द्रव्यपतिरयमिति, द्रव्ये-सिंहासने राजा चूते कोकिलः गिरौ मयूर इति, एवं क्षेत्रविषयोद्देशोऽपि वक्तव्यः,एवं कालविषयोऽपीति, समासः' संक्षेपस्तद्विषय उद्देशः समासोद्देशः, स च अङ्गश्रुतस्कन्धाध्ययनेषु द्रष्टव्यः, तत्र अङ्गसमासोद्देशः-अङ्ग अङ्गी तदध्येता तदर्थज्ञ इत्येवमन्यत्रापि योजना कार्या, उद्देशः-अध्ययनविशेषः तस्य उद्देश उद्देशोद्देशः, तद्विषयश्च उद्देश इति, स चोद्देशोद्देशोऽभिधीयते-उद्देशवान् तदध्येता तदर्थज्ञो वेति, भावविषयश्च भवति उद्देशः अष्टमक इति, स चायं-भावः भावी भावज्ञो वेति गाथार्थः ॥१४२॥ अयमेव ाद्देशोऽष्टविधविशिष्टनामसहितो निर्देश इत्यवसेयः, तथा चाह नियुक्तिकारःएमेव य निद्देसो अट्ठविहो सोऽवि होइ णायव्यो । अविसेसिअमुद्देसो विसेसिओ होइ निद्देसो॥१४३॥
Jain Education Intematonal
For Personal & Private Use Only
www.nelibrary.org