________________
यसंमट्ठरत्थंतरावणवीहियं' सिक्तानि जलेनात एव शुचीनि पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणि आपणवीथषयहमार्गा यस्मिन् तत्तथा 'मंचातिमंचकलितं ' मश्चा- मालकाः प्रेक्षणकद्रष्टृजनोपवेशननिमित्तं अतिमश्वाः तेषामप्युपरि ये तैः कलितं 'णाणाविहरागभूसियज्झयपडागमंडियं' नानाविधरागैः कुसुम्भादिभिर्भूषिता ये ध्वजाः सिंहगरुडादिरूपकोपलक्षितबृह| त्पटरूपाः पताकाश्च तदितरास्ताभिर्मंडितं 'लाउल्लोइयमहियं' लाइयं-छगणादिना भूमौ लेपनं उल्लोइयं - सेटिकादिना कुड्यादिषु धवलनं ताभ्यां महितं - पूजितं ते एव वा महितं - पूजनं यत्र तत्तथा 'गोसीससरसरत्तचंद्णदद्दरदिनपंचंगुलितलं' गोशीर्षस्य - चन्दनविशेषस्य सरसस्य च - रक्तचन्दनविशेषस्यैव दर्दरेण - चपेटारूपेण दत्ता न्यस्ताः पञ्चाङ्गुलयस्तला - हस्तका यस्मिन् कुड्यादिषु तत्तथा 'उवचियचंदणकलसं' उपचिता-उपनिहिता गृहान्तः कृतचतुष्केषु चन्दनकलशा - मङ्गल्यघटाः यत्र तत्तथा 'चंदणघडसुकयतोरणपडिदुवारदेसभागं' चंदनघटाः सुष्ठुकृताः तोरणानि च प्रतिद्वारं द्वारस्य २ देशभागेषु यत्र तत्तथा 'आसत्तोसत्तविपुलवट्टवग्घारियमल्लदामकलावं' आसक्तो - भूमिलग्नः उत्सक्तञ्च - उपरिलनो विपुलो वृत्तो 'वग्घारियत्ति प्रलम्बो माल्यदानां - पुष्पमालानां कलापः- समूहो यत्र तत्तथा 'पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलियं' पश्चवर्णाः सरसाः सुरभयो ये मुक्ताः - करप्रेरिताः पुष्पपुञ्जास्तैर्य उपचारः - पूजा भूमेः तेन कलितं 'कालागरुपवरकुंदुरुक्कतुरुक्कधूवडज्अंतमघमघंतगंधुदुयाभिरामं' कुंदुरुकं -चीडा तुरुकं - सिल्हकं 'सुगन्धवरगन्धियं गंधवट्टिभूयं नडनट्टगजलमल्लगमुट्ठियवेलंबगकहकहगपवगलासग आइक्खगलंखमंखतूणइल्लूतुंबवीणिय अणेगतालायरपरिगीयं' तत्र नटा-नाटकानां नाटयितारः नर्त्तका - ये नृत्यन्ति अंकिला इत्येके जल्ला - वरत्राखेलका राज्ञः स्तोत्रपाठका इत्यन्ये मल्लाः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org